SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४२४ ] बृहवृत्ति-लवुन्याससंवलिते [पा० १. सू० ४-५.] गृह्यते । कारिकाकृत्य,-स्थितिं यत्नं क्रियां वा कृत्वेत्यर्थः । स्थित्यादाविति किम् ? कारिकां कृत्वा,-कीं कृत्वा इत्यर्थः ।। ३ ।। न्या० स०--कारिका-कारिकाकृत्येति करणं कारिका भावे णकः, कारिका करणं पूर्व इति वाक्येऽपि अनेन गतिसंज्ञायां 'अव्ययस्य' [३. २. ७.] इति षष्ठ्या लुप्, एवं सर्वत्र । श्लोकवाचिनस्तु कारिकाशब्दस्य सत्यपि धातुसंबन्धसंभवे प्रयोगा- 5 दर्शनात् ग्रहणाभाव इति ॥ ३. १. ३ ॥ भूषादरक्षेपेलंसदसत् ॥३. १. ४ ॥ अलं, सत्, असत् इत्येते शब्दा यथासंख्यं भूषादरक्षेपेष्वर्थेषु वर्तमाना धातोः संबन्धिनो गतिसंज्ञा भवन्ति तस्माच्च धातोः प्रागेव प्रयुज्यन्ते । भूषामण्डनम्-अलंकृत्य, अलंकृतम्, प्रीत्या संभ्रम-आदर:-सत्कृत्य, सत्कृतम्,10 क्षेपोऽनादरः-असत्कृत्य, असत्कृतम् । भूषादिष्विति किम् ? अलं कृत्वा माकारीत्यर्थः, सत् कृत्वा, विद्यमानं कृत्वेत्यर्थः, असत्कृत्वा-अविद्यमानं. कृत्वेत्यर्थः ।। ४ ।। अग्रहानुपदेशेअन्तरदः ।। ३. १. ५ ॥ अन्तर् अदस् इत्येतौ शब्दौ यथासंख्यमग्रहेऽनुपदेशे चार्थे गम्यमाने15 धातोः संबन्धिनौ गतिसंज्ञौ भवतः, तस्माच्च धातोः प्रागेव प्रयुज्यते । अग्रहोऽस्वीकारः । अन्तर्हत्य, मध्ये हिंसित्वा शत्रून् गत इत्यर्थः । स्वयं परामर्शोऽनुपदेशो विशेषानाख्यानं वा। अदःकृत्यैतत्करिष्यतीति चिन्तयति । अग्रहानुपदेशे इति किम् ? अन्तर्हत्वा मूषिकां श्येनो गतःपरिगृह्य गत इत्यर्थः। अदः कृत्वा गत इति परस्य कथयति । 20 अदस्शब्दस्त्यदादौ । अव्ययमिति केचित् ।। ५ ।। न्या० स०-अग्रहानु०। मध्ये हिंसित्वेति-अन्तःशब्दो मध्येऽधिकरणभूते वर्तते परिग्रहे च, तत्र परिग्रहे प्रतिषेधादितरत्र गतिसंज्ञा विज्ञायते इति दर्शयति, विशेषानाख्याने चिन्तयतीत्यस्य स्थाने कथयतीति प्रयोगो ज्ञेयः ।। ३.१.५।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy