________________
४०२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ८८-८६.]
प्राप्नोति, नैवम्-"न सन्धि०" [ ७. ४. १११. ] इति स्थानिवद्भावप्रतिषेधात्, प्रथमपक्षे तु "न सन्धि०" [७. ४. १११. ] इत्यस्य चिन्तापि न कृता, उत्तरान्तरेणैव सिद्धत्वात् ।। २. ४. ८७ ।।
10
व्यञ्जनात् तद्धितस्य ॥ २. ४. ८८ ॥
व्यञ्जनात् परस्य तद्धितस्य यकारस्य यां लुग् भवति'। मनोरपत्यं । स्त्री-मनुषी, गर्गस्यापत्यं पौत्रादि स्त्री-गार्गी, सोमो देवता अस्याः-सौमी दिक्, उचितस्य भाव औचिती, चातुरी, वृकात् टेण्यरिण-वार्केगी; समिध प्राधाने टेण्यरिण-सामिधेनी। व्यञ्जनादिति किम् ? कारिकाया अपत्यंकारिकेयी, हारिकेयी। तद्धितस्येति किम् ? वैश्यस्य भार्या-वैश्यी ? ङ्यामित्येव-पावटया ।। ८८ ।।
न्या० स०--व्यञ्जना०। तद्धितस्येत्यत्र तद्धितसम्बन्धिनो यंकारस्येति वैयधिकरण्ये षष्ठी, यकारस्य किंविशिष्टस्य ? तद्धितस्य तद्धितरूपस्येति तु सामानाधिकरण्ये सामिधेनीत्यादौ न स्यात। औचितीति-"उचच समवाये" उच्यति-समवैति प्रकृतः स्वभावै: “क्रुशी-पिशि०" [उणा० २१२.] इति किदितः। [वार्केणी] वृकाः शस्त्रजीविनस्तेषां संहतिः । सामिधेनीति-समिधामाधानी। वैश्यीति-विशति अध्ययनार्थं 15 यज्ञशालायामिति "शिक्या-ऽऽस्याऽऽढय०" [ उरणा० ३६४. ] इति साधः, येषां मते विशोऽपत्यमिति “विशो जातौ” इति सूत्रेण ट्यण्प्रत्यये वैश्यशब्दः साध्यते तन्मते यलोपः प्राप्नोत्येव। पतनं-पतः, ततोऽन्यत्-अपतः, तत्र साधु-अपत्यम्, एवं-विदन्त्यनयेति विद्या, तामधीते स्त्री अणन्तत्वाद् ड्यां कृद्यकारत्वाल्लोपाभावे-वैद्यी, अस्यैव सुप्रसिद्धत्वात् पूर्वं बुद्धावुपारोहात् तत्प्रदर्शनं न्याय्यं, न तु वैद्यस्य स्त्री-वैद्यीति न्यासकार:20 ।। २. ४. ८८।।
सूर्या-अगस्त्ययोरीये च ॥ २. ४. ८६ ॥
अनयोर्यकारस्य डीपत्यये ईयप्रत्यये च लुग् भवति । सूर्यस्य भार्या मानुषी-सूरी। सूर्यस्येयमित्यरिण-सौरी प्रभा। अगस्त्यस्येयम्-प्रागस्ती, सौर्यस्यायं-सौरीयः, एवमागस्तीयः । ईये चेति किम् ? सूर्यो देवताऽस्य-25 सौर्यः, अगस्त्यस्यायम्-आगस्त्यः ।। ८६ ।।
न्या० स०--सूर्या० । सौरीयागस्तीयशब्दयोः प्रथमं देवतार्थेऽण् , इदमर्थे पश्चादीयः ।। २. ४. ८६ ।।