________________
३६४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ७४-७५.]
वचनत्वम्, तथा चोङि सति ह्रस्वत्वं सिद्धम् । अन्ये तु "असूर्यपश्यरूपा त्वं किमभीरुररार्यसे' इति प्रयोगदर्शनाज्जातिवचनत्वमनिच्छन्त ऊडं न मन्यन्ते ।। ७३ ।।
न्या० स०--उतोऽप्रा०। ऊङिति दीर्घनिर्देश उत्तरार्थः, तेन "नारी सखी०" [२.४.७६. ] इत्यत्र श्वश्ररिति दीर्घान्तो निपातः सिद्धः । करूरिति-तस्यापत्यं 5 "दुनादि०" [ ६. १. ११८. ] इति विहितस्य ञ्यस्य “कुरोर्वा” [ ६. १. १२२ ] इति लुपि “गोत्रं च चरणः सह" इति जातित्वादुङ । इक्ष्वाकूरिति-"राष्ट्रक्षत्रियात्०" [ ६. १. ११४. ] इति अञ्, तस्य "द्रेरत्रण०" [६. १. १२३.] लुप् । ब्रह्मबन्धूरितिअत्र च “लिङ्गानां च न सर्वभाक्” इति जातित्वम् । तत्र बहुलाधिकारादितिसमासान्तप्रकरणे इत्यर्थः, यद्वा ऊश्चासावूङ चेति द्विविधानादन्यः प्रत्ययो न भवतीति 10 कैयटमतम् ।। २. ४. ७३ ॥
15
बावन्त-कद-कमण्डलोर्ना म्नि ॥२. ४. ७४ ।।
बाहुशब्दान्तान्नाम्नः कद्र -कमण्डलुभ्यां च नाम्नि विषये स्त्रियामूङ प्रत्ययो भवति । मद्रबाहूः, भद्रबाहूः, कद्र :, कमण्डलूः; संज्ञा एताः । नाम्नीति किम् ? वृत्तौ बाहू अस्या वृत्तबाहुः ।। ७४ ।।
न्या० स०--बाह्वन्तः। अन्तग्रहणं तदन्तविध्यर्थम्, अक्रियमाणे हि तस्मिन् यः . स्त्रीसंज्ञायां बाहुशब्दस्तस्मात् केवलादूङ् विधीयते, यथैव हि देवदत्तशब्दः स्त्री-पु सयोः संज्ञा, एवं बाहुशब्दोऽपि; अप्राणिनश्चेत्यनेन भुजाभिधायकाद् बाहुशब्दादूङ सिद्धो न तु संज्ञाशब्दात्, अन्तग्रहणात् तु तदन्ताद् बाहुशब्दात् क्रियते, न तु केवलात् । मद्रबाहूरित्यत्र मद्रौ भद्रौ बाहू यस्या इत्यवयवार्थकल्पना यथाकथञ्चित् समुदायस्य संपादनार्थ20 क्रियते । कमण्डलूरित्यत्र कमण्डलुशब्दस्य चाप्राणिजातित्वादप्राणिनश्चेत्यूङि प्राप्ते नियमः क्रियते, रज्ज्वादिपाठेन च ऊङ प्रतिपधे प्राप्ते विधिः क्रियत इति । नन्वस्याप्राणिजातिवचनत्वात् "चतुष्याच एय" | ६.१.८३. | इत्यत्र कामण्डलेय इति कथमुदाहरति, चतुष्पाज्जातिवाचित्वात् प्राणिजातित्वमव्यभिचरितमेव, सत्यम्-अप्राणिजातिवचनोऽयं शब्दान्तरमेव, आनन्त्यात् शब्दानामिति ।। २. ४. ७४ ।।
25
उपमान-सहित-संहित-सह-सफ-वाम-लक्ष्मणाघरो
उपमानादिपूर्वपदादूरुशब्दात् स्त्रियामूङ् प्रत्ययो भवति । करभ इव