________________
[पा० ४. सू० ६०-६२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३८६
पूतक्रतु-वृषाकप्यठिम-सित-सिदादै च ॥ २. ४. ६० ॥
एभ्यो धवनामभ्यस्तद्योगात् स्त्रियां वर्तमानेभ्यो ङीर्भवति, तत्संनियोगे ऐकारश्चान्तादेशः । पूतक्रतो र्या-पूतक्रतायी, एवं-वृषाकपायी, अग्नायी, कुसितायी, कुसिदायो। योगादित्येव-पूताः क्रतवो यया सा पूतक्रतुः, एवंवृषाकपि म काचित् ।। ६० ॥
न्या० स०-पूतक्रतु०। ननु कुसिदादै चेति पञ्चमीनिर्देशादैकारः प्रत्यय एव विज्ञायते, ततश्च ङी ऐकारश्च प्रत्ययौ भवत इति सूत्रार्थः कथं न लभ्यते, कथमुक्तमैकारश्चान्तादेश इति, नैष दोषः-“एयेऽग्नायी" [ ३. २. ५२. ] इति निर्देशात्, न ह्य कारस्य प्रत्ययत्वे अग्नायीति भवति । वृषो धर्मः, कपिर्वराहस्ताद्रूप्यात् पृषोदरादित्वाद् दीर्घवृषाकपिः, वृषं दानवमाकम्पितवान् वा “अम्भि-कुण्ठि" [ उणा० ६१४. ] इति इ: ।10 कुसितकुसिदौ ऋषी ।। २. ४. ६० ।।
मनोरौ च वा ॥ २. ४. ६१।।
मनोर्धवनाम्नस्तद्योगात् स्त्रियां वर्तमानाद् डीर्वा भवति, तत्संनियोगे औकार ऐकारश्चान्तादेशो भवति । मनोर्भार्या-मनावी, मनायी, मनुः ।। ६१ ।।
15 न्या० स०--मनोरौ०। प्रत्ययसंनियोगार्थं चकारोऽनुवर्त्तते । वाशब्दः प्रथम विधेयतया प्रधानेन ङीप्रत्ययेन संबध्यते, न त्वौकारेण तत्संनियोगविधानेनाप्रधानत्वादिति ।। २.४.६१ ॥
वरुणेन्द्र-रुद्र-भव-शर्व-मुडादान् चान्तः ॥ २. ४. ६२ ॥
एभ्यो धवनामभ्यस्तद्योगात स्त्रियां वर्तमानेभ्यो ङीर्भवति, तत्संनियोगे20 च आनन्त आगमो भवति । वरुणस्य भार्या-वरुणानी, एवम्-इन्द्राणी, रुद्राणी, भवानी, शर्वाणी, मृडानी। कश्चित् त्वाहिताग्नेर्भार्या-आहिताग्न्यानी, एवं-प्रजापत्यानी, वणिजानीत्यादावपीच्छति; इन्द्रमाचष्टे इन्द्र , तद्भार्याइन्द्राणी, एवं-मातुलानीत्यपरः ।। ६२ ।।
न्या० स०--वरुणेन्द्र० । आनन्त आगमो भवतीति-आनिति दीर्घोच्चारणं25