________________
[पा० ४. सू० ३६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३७७
"सत्त्वे निविशतेऽपैति, पृथग्जातिषु दृश्यते ।
प्राधेयश्चाक्रियाजश्व, सोऽसत्त्वप्रकृतिर्गुणः" ।। १ ।। इति गुणमिह परिभाषन्ते । सत्त्वं-द्रव्यम्, तत्रैव निविशते-तदेवाश्रयति यः स गुण इति संबन्धः । द्रव्यादपैत्यपगच्छति-यथाऽऽम्रन्नीलता पीततायामुपजातायाम्, पृथग्जातिषु-भिन्नजातीयेषु दृश्यते, यथा सैव नीलता आम्र 5 दृष्टा तरुणतृणेषु दृश्यते, एतेन सर्वेण जातिर्गुणो न भवतीत्युक्त भवति । आधेय-उत्पाद्यो यथा कुसुमयोगाद् गन्धो वस्त्रे, यथा वाऽग्निसंयोगाद् घटे रक्तता। प्रक्रियाजो-नित्यः, तद्यथाऽऽकाशादिषु महत्त्वादिः । तदेवं गुणस्योत्पाद्यत्वाऽनुत्पाद्यत्वप्रकारद्वयप्रदर्शनेनोत्पाद्यत्वैकप्रकारस्य कर्मणो व्यवच्छेदः। असत्त्वप्रकृतिः-द्रव्यस्वभावरहितः, अनेन द्रव्यस्य10 व्यवच्छेदः ।। ३५ ।।।
न्या० स०--स्वरादुतो०। अर्थे कार्यासम्भवादुत इत्यादिविशेषणायोगाच्चोपचाराद् गुणवचनः शब्दो गुण इत्युच्यते। स्त्रीत्वायोगादिति-उकारान्तस्य पुंस्त्वविधानादित्यर्थः । खररियमिति-क्रूरा मूर्खा दर्पिष्टा श्वेता वा स्त्री, "खरुः स्यादश्व-हरयोर्दर्पदन्तसितेषु च" ।' यद्यपि महत्वरूपस्याकाशगुणस्यापैतीति विशेषणं न घटते तथाप्या-15 म्रादिस्थितनीलादिगुणस्य घटमानं सर्वस्यापि विशेषणं भवति, यथा कस्यचिद् गोश्चन्द्रक इति विशेषणं चिह्न कृतं चन्द्रकोऽयं गौरिति, पश्चाद् गोसमूहोऽपि चन्द्रकोऽयमित्युच्यते तथाऽत्रापि भविष्यति ॥ २.४.३५ ।।
श्येतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च
॥२. ४. ३६ ।।20 एभ्यो वर्णवाचिभ्यः स्त्रियां ङीर्वा भवति, तत्संनियोगे तकारस्य नकारश्च भवति । श्येनी, श्येता; एनी, एता; हरिणी, हरिता; भरणी, भरता; रोहिणी, रोहिता; लत्वे-लोहिनी, लोहिता। वर्णादिति किम् ? श्येता, एता। चकारो नकारस्य डोसंनियोगशिष्टतार्थः ।। ३६ ॥
न्या० स०-श्येतत। वाऽधिकारः प्रधानत्वात् प्रत्ययविधिनैव संबध्यते 125 श्येनीति-शुभ्रा। एनी कर्बुरा शुभ्रा वा। हरिणी नीला। भरणी पाटला धूसरा घृतवर्णा वा रोहिणी रक्ता इत्यर्थः ।। २. ४. ३६ ।।