________________
[ ३७५
[ पा० ४. सू० ३२. ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
वर्णः, निर्दोषरक्तवर्ण इत्यर्थः । चण्डीति - कोपनायामनेनैव विकल्पः, गौर्यां तु गौरादिपाठान्नित्यं ङी । अरालशब्दो वक्रार्थोऽत्र दृष्टव्यः, पक्षिविशेषे तु गौरादौ । लक्ष्म्यां कमली कमला । भरोॠषेर्जात : - भरुजः - ऋषिविशेषः । भरुजेति तु पाठान्तरम्, तदा "भृजैङ - भर्जने" रिगगन्तादचि, अत एव पाठा रेफात् परतो दीर्घ ऊकारागमे - भरूजा:स्नेहभृष्टाः किल तन्दुलाः । ध्वजी ध्वजा कल्पपालभार्या दशवक्रा च । वृत्रघ्नीति - 5 केवलस्य हन्शब्दस्याप्रयोगात् तदन्तमुदाहरति । चन्द्रभागीति- चन्द्रभागयोः पर्वतयोरदूरभवा नद्यपि चन्द्रभागी । अरणन्तान्नद्यामित्येके । चान्द्रभागीति- चन्द्रभागाभ्यां गिरिभ्यां प्रभवति अण् ।। २. ४. ३१ ।।
इतोऽक्त्यर्थात् ॥ २. ४. ३२ ।।
इकारान्तान्नाम्नः स्त्रियां ङीर्वा भवति, न चेत् तत् क्त्यर्थप्रत्ययान्तं 10 स्यात् । भूमी, भूमिः ; ग्रङ्गुली, अङ्गुलिः ; धूली, धूलिः; ग्राली, आलिः; धमनी, धमनिः; दव, दविः; श्रोणी, श्रोणिः; राजी, राजि: ; प्रावली, आवलिः; यष्टी, यष्टिः; शारी, शारिः; सरणी, सरणिः; अशनी, अशनिः; अरणी, अररिणः, शकृत्करी, शकृत्करिः; आत्मंभरी, आत्मंभरिः; कपी, कपिः ; अही, अहिः; तारी, तारिः, मुनी, मुनिः प्रञ्चती, प्रञ्चतिः ; 15 अङ्कती, अङ्कतिः; श्रंहती, संहतिः; शकटी, शकटिः; शस्त्री, शस्त्रिः, रजनी, रजनिः; धरणी, धरणिः, रात्री, रात्रिः । अक्त्यर्थादिति किम् ? कृति; हृतिः, अजननिः, अकररिणः, ज्यानिः ग्लानिः हानिः । कथं साती ?, सातिः ? - तिगन्ताद् भविष्यति । अन्ये तु ञ्चति प्रति-श्रंहति शकटिशस्त्रि-शारि-तारि-अहि- कपि-मुनि-रात्रि यष्टिभ्यः कटि श्रोणि प्रभृतिप्राण्यङ्ग-20 वाचिभ्यः क्तिवजित कृदन्तेभ्यश्च कारान्तेभ्य इच्छन्ति, नान्येभ्यः, तन्मते - शोभनो गन्धो यस्याः सा सुगन्धिः, सुरभिगन्धिः; निर्गता कौशाम्ब्या निष्कौशाम्बिः, प्रारिणः, शारिणः - इत्यादिषु न भवति, क्तिमात्रवर्जनाच्चाकररिण अजननि ज्यानिग्लानिप्रभृतिषु न प्रतिषेधः ।। ३२ ।।
"
न्या० स० - इतोऽक्त्यर्थात् ।
आवलीति प्राङपूर्वाद्वले: “पदि पठि० "25 [ उरणा० ६०७ . ] इति इकारे । सरणीति - स्त्रियते गम्यतेऽनया "ऋ- हृ-सृ०" [ उणा० ६३८. ] इत्यादिनाऽरिणः । अरणीति - श्रग्निनिर्मथनकाष्ठम् । जनपदे भवा जाता वा "उत्सादेरञ्" [६. १. १६.] । तेर्भार्याऽभेदोपचारेण अञ्चतीति श्रग्निभार्या, अप्राप्तमपि धवयोगात् स्त्रीत्वम् । अङ्कतिः - वायुर्ब्रह्माग्निः तेषां भार्याऽभेदोपचारेण