________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ८७-८८.]
नागमस्य न णत्वं "म्नां." [ १. ३. ३६. ] इति बहुवचनेन बाधितत्वात् । परत्वाद् विकल्प इति प्रेवणमित्यादौ "नाम्यादे०" [२. ३. ८६.] इत्यस्यावकाशः, प्रयापणेत्यादौ "णेर्वा" [२. ३. ८८. ] इत्यस्य, प्रेरणा, प्रेङ्खना' इत्यादौ तूभयप्राप्तौ परत्वाद् विकल्प एव, अत एव प्रमङ्गणमित्यादौ नियमाप्रवृत्तिः ।। २. ३.८६ ।।
व्यञ्जनादे म्युपान्त्याद् वा ॥ २. ३.८७ ॥
अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रघुवर्णात् परो यो व्यञ्जनादि म्युपान्त्यो धातुस्ततः परस्य कृद्विषयस्य स्वरादुत्तरनकारस्य णो वा भवति । प्रमेहरणम्, प्रमेहनम् ; प्रकोपरणम्, प्रकोपनम् ; प्रगुप्यमारणम्, प्रगुप्यमानम् ; प्रकोपिणौ, प्रकोपिनौ; अप्रकोपणिः, अप्रकोपनिः; प्रकोपणीयम्, प्रकोपनीयम् । व्यञ्जनादेरिति किम् ? प्रेहणम्, प्रोहणम् । नाम्युपान्त्यादिति किम् ? प्रवपणम्,10 प्रवहणम् । स्वरादित्येव-प्रभुग्नः, परिभुग्नः । अदुरित्येव-दुर्मोहनः, दुर्गृहनः । अलचटतवर्गशसान्तर इत्येव-प्रभेदनम् ; प्रभोजनम् । “स्वरात्" [२. ३. ८५.] इत्यनेन नित्यं प्राप्ते विभाषेयम् ।। ८७ ।।
न्या० स०--व्यञ्जनादे० । दुर्मोहन इति-दुर्मु ह्यतेऽनेनास्मिन् वा "करणाधारे" [ ५. ३. १२६. ] अनट, दुर्मु ह्यतीति नन्द्यादिभ्यो वा। दुर्गहन इत्यत्र “गोहः स्वरे"15 [ ४. २. ४२. ] ऊत् ।। २. ३. ८७ ।।
णेर्वा ॥२. ३. ८८ ॥
अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रघुवर्णात् परस्य ण्यन्ताद् धातोविहितस्य स्वरादुत्तरस्य कृद्विषयस्य नकारस्य गो वा भवति । प्रमङ्गणा, प्रमङ्गना; प्रयापणम्, प्रयापनम् प्रयापिणौ; प्रयापिनौ; अप्रयापणिः, अप्रयापनिः; 20 प्रयापणीयम्, प्रयापनीयम् । विहितविशेषणं किम् ? प्रयाप्यमाणः, प्रयाप्यमान इति क्येन व्यवधानेऽपि यथा स्यात् । अलचटतवर्गशसान्तर इत्येव-प्रदापनम्, प्रतियापनम् । अनाम्यादिभ्यो धातुभ्यो नागमे सति "नाम्यादेरेव ने' [२. ३. ८६.] इति नियमेनाऽप्राप्ते, शेषेभ्यस्तु "स्वरात्" [२. ३. ८५.] इत्यनेन नित्यं प्राप्ते उभयत्र विभाषेयम् ।। ८८ ।।
न्या० स०--णेर्वा । शेषेभ्यस्त्विति-नागमरहितेभ्यः ।। २. ३.८८ ।।
.
25