SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० ६४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३३१ मेषनासिकः। अनन्त्यस्येति किम् ? वृक्षान् । लादिवर्जनं किम् ? विरलेन, अर्चनम्, मूर्छनम्, अर्जनम्, झनम्, किरीटेन, कर्मठेन, मृडेन, दृढेन, कर्णेन, कीर्तनम्, तीर्थन, नर्देन, क्रोधेन, रशना, रसना। अधिकारश्चायमा रगत्वविधेः ।। ६३ ।। न्या० स०--रषवर्णा० । ननु ऋवर्णग्रहणं किमर्थम् ? यत ऋवर्णादपि तन्मध्य- 5 व्यवस्थितरेफाश्रयं णवं भविष्यति, अत एव पाणिनिनापि रषाभ्यामित्येवोक्तम्, उच्यतेनहि वर्णकदेशा वर्णग्रहणेन गृह्यन्ते तद्भिन्नत्वाद् वर्णबुद्धेरनुपादानात्, तथाहि-मांसं न विक्रेयमिति सत्यपि निषेधे गावो विक्रियन्ते, तत्र मांसबुद्धेरभावात् । शेषवर्णव्यवधानेऽपोति-प्रसज्यप्रतिषेधादितरैर्व्यवधानेऽपि भवति । पुष्णातीति-अत्र "तवर्गस्य०" [१. ३. ६०.] इत्यनेनैव गत्वे सिद्धे षकारग्रहणं कषणमित्यादौ व्यवहितार्थ, तदर्थं च सत्10 परत्वात "तवर्गस्य" [ १.३.३०.] इति बाधित्वा णत्वं प्रवर्तयति । नभिनभिरितिद्विष्प्रयोगो द्विवचनमित्याश्रयणाद् भिन्नपदत्वमित्यर्थः । विरलेनेति विपूर्वाद्रमेः "मुरल." [ उणा० ४७४. ] इति निपातनात् डित्यले। ऋषीणामित्यादौ दीर्घरूपे स्यादिविधौ कर्तव्ये पूर्वकृतमपि णत्वमसिद्धं भवति ।। २. ३. ६३ ।। पूर्वपदस्थानाम्न्य गः ॥ २. ३. ६४ ॥ पूर्वपदस्थाद् रषवर्णादगकारान्तात् परस्य सामर्थ्यादुत्तरपदस्थस्य नकारस्य णकार प्रादेशो भवति, नाम्नि-संज्ञायां विषये । गुणसः, खुरणसः, खरणाः, खुरणाः, शूर्पणखा, चन्द्रणखा, वाीणसः, हरिवाहणः, नरवाहण:, पुष्परगन्दी, श्रीणन्दी स्त्री। नाम्नीति किम् ? मेषनासिकः, चर्मनासिकः । अग इति किम् ? ऋगयनम् । एकस्मिन्न व पदे इति पूर्वसूत्रे विज्ञानादुत्तर-20 पदस्थस्य समासे न प्राप्नोतीति वचनम् । खरपस्यापत्यं खारपायणः, मातृ-- भोगाय हितो मातृभोगीणः । गर्गभगोऽस्या अस्तीति गर्गभगिणीत्यादौ तु.' उत्तरपदसंबन्धी नकारो न भवतीति एकपदत्वात् पूर्वेणैव गत्वं भवति, यदा तु गर्गाणां भगिनीति विग्रहस्तदैकपदत्वाभावाद् गर्गभगिनीत्येव भवति । कथं 'देवदारुवनम्, कुबेरवनम्, मनोहरवनम्, प्रभङ्करवनम्', इत्यादिसंज्ञायां गत्वं25 न भवति ? उच्यते-"कोटर-मिश्रक-सिध्रक-पुरग-सारिकस्य वणे”[३.२.७६.] इति णत्वनिपातनस्य नियमार्थत्वेन व्याख्यास्यमानत्वात् संज्ञायां कोटिरादिभ्य एव वनशब्दस्य रगत्वं भवति नान्येभ्य इति ।। ६४ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy