________________
[पा० ३. सू० ४६-५०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३२५
सिवस्तस्य सोरूपासंभवात्, सिवोऽनुबन्धनिर्देशात् यङ्लुपि न भवति-परिसेषिवीति । बहुवचनं परि-नि-विभिः सह यथासंख्यनिवृत्त्यर्थम् ॥ ४८ ॥
न्या० स०--असोङ। सोङ त्येतयोर्द्वन्द्व पश्चात् नत्राऽन्यपदार्थे सिवूसहलक्षणे बहुव्रीही कर्मधारये च पुनर्द्वन्द्वः ।। २. ३. ४८ ।।
स्तु-स्वजश्चाटि नवा ॥२. ३. ४६ ॥
परि-नि-विभ्यः परस्य स्तु-स्वजोर्धात्वोरसोड-सिव-सह-स्सटां च सकारस्याटि सति षो वा भवति । पर्यष्टौत्, पर्यस्तोत्; न्यष्टौत्, न्यस्तोत्; व्यष्टौत्, व्यस्तौत् ; पर्यष्वजत, पर्यस्वजत; न्यष्वजत, न्यस्वजत; व्यष्वजत, व्यस्वजत; पर्यषीव्यत्, पर्यसीव्यत् ; न्यषीव्यत्, न्यसीव्यत् ; न्यषीव्यत्, व्यसीव्यत्; पर्यषहत, पर्यसहत, न्यषहत, न्यसहत; व्यषहत, व्यसहत ; 10 पर्यष्करोत्, पर्यस्करोत् । असोङसिवूसहेत्येव-पर्यसोढयत्, पर्यसीषिवत्, पर्यसीषहत् । स्तु-स्वजोनित्यं प्राप्ते सिवू-सह-स्सटां चाप्राप्ते विभाषा ॥ ४६ ।।
न्या० स०--स्तु-स्वञ्जः०। स्तु-स्वजोनित्यं प्राप्त इति-"उपसर्गात् सुग्०" [ २. ३. ३६. ] इति “स्वआश्च" [ २. ३. ४५. ] इत्याभ्यामित्यर्थः ।। २. ३. ४६ ।।
निरभ्यनोश्च स्यन्दस्याप्राणिनि । २. ३. ५० ॥ 15
निरभ्यनुभ्यश्चकारात् परिनिविभ्यश्च परस्याप्राणिकर्तृ केऽर्थे वर्तमानस्य स्यन्देः सकारस्य षो वा भवति । निःष्यन्दते तैलम्, निःस्यन्दते तैलम् ; अभिष्यन्दते; अभिस्यन्दते; अनुष्यन्दते, अनुस्यन्दते; परिष्यन्दते; परिस्यन्दते, निष्यन्दते, निस्यन्दते; विष्यन्दते, विस्यन्दते । शनिर्देशाद् यङ्लुपि न भवतिअभिसास्यन्दीति तैलम् । निरभ्यनोश्चेति किम् ? अतिस्यन्दते तैलम् । 20 अप्राणिनीति किम् ? परिस्यन्दते मत्स्य उदके। पर्युदासोऽयं न प्रसज्यप्रतिषेधः, तेन-यत्र प्राणी चाप्राणी च कर्ता भवति, तत्राऽप्राण्याश्रयो विकल्पो भवति, न तु प्राण्याश्रयः प्रतिषेधः-अनुष्यन्देते मत्स्योदके, अनुस्यन्देते वा। निनिभ्यां नेच्छन्त्येके ।। ५० ।।
न्या० स०-निरम्यनोः०। एके इति-देवनन्दि-शकटललितस्वभावाः, नेस्तु25