________________
३१२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० २३-२५.]
न्या० स०--स्नानस्य नाम्नि। प्रतिष्णानमिति-प्रतिस्नातीति नन्दादिभ्यो रम्यादिभ्यो वाऽनः, अथवा प्रतिस्नाति तेनेति करणेऽनट् ।। २. ३. २२ ।।
वे. स्त्राः ॥ २. ३. २३ ॥
वेः परस्य स्तृणातेः सकारस्य समासे षो भवति, नाम्नि-समुदायश्चेत् संज्ञाविषयो भवति । विष्टरो वृक्षः, विष्टरमासनम्, विष्टारपङ्क्तिश्छन्दः; 5 विष्टारबृहती छन्दः । नाम्नीत्येव-विस्तरो वचसाम्, विस्तारः पटस्य ।। २३ ।।
न्या० स०-वेः स्त्रः। विष्टरमासनमिति अत्र विष्टरोऽतरी, नपुसकत्वम् । विष्टारपङ्क्तिरिति-विस्तीर्यते "छन्दोनाम्नि" [५. ३. ७०.] इति घ, विस्तरस्य पङ्क्तिः , विस्तरस्य बृहतीति तु वाक्ये न घञ् संज्ञाया अभावात्, समुदायेन हि संज्ञा10 गम्यते। संज्ञाविषयत्वं च सामस्त्येन एकदेशेन च भवतीति क्रमेणोदाहरति-विष्टर इत्यादि-विस्तीर्यत इति “युवर्ण०" [५. ३. २८.] इत्यलि-विष्टरः । विष्टार इति हि छन्दोनाम्नोऽवयवः, विष्टारपङ्क्तिः ।। २. ३. २३ ।।
अभिनिष्टानः ॥ २. ३. २४ ॥
'अभिनिस्' इत्येतस्मात् परः, ष्टानशब्दः समासे कृतषत्वो निपात्यते,15 . नाम्नि-समुदायश्चेत् संज्ञाविषयो भवति । अभिनिष्टानो वर्णः, विसर्गस्यैषा संज्ञा, वर्णमात्रस्येत्यन्ये । नाम्नीत्येव-अभिनिःस्तन्यते अभिनिस्तानो मृदङ्गः ।। २४ ।।
न्या० स०--अभि-नि०। अत्रोपलक्षणत्वान्निरोऽपि ग्रहः । “व्यत्यये लुग् वा" [ १. ३. ५६. ] रलुक् ।। २. ३. २४ ।।
गवि-युधे. स्थिरस्य ॥ २. ३. २५ ॥
'गवि युधि' इत्येताभ्यां परस्य स्थिरशब्दसंबन्धिनः सस्य समासे षो भवति, नाम्नि। गविष्ठिरः, अस्मादेव निर्देशात् सप्तम्या अलुप् युधिष्ठिरः ।। २५ ।।
न्या० स०-गवि-युधेः । अनयोः सप्तम्यन्तानुकरणयोरपि युध्शब्दस्य यथा-25 प्राप्त: “अव्यश्चनात्०" [ ३. २. १८. ] इत्यनेनैवालुप् ।। २. ३. २५ ।।
20