________________
३०८ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० ३. सू० १४.
परमधनुष्करोतीति परमपि:-परमधनुःशब्दयोरिसुसन्तत्वाभावान्मा भूत् षकारः, परमुत्तरपदार्थप्रधानत्वात् समासस्य सपि-र्धन:शब्दयोरिसुसन्तत्वात् तदाश्रय: षो भविष्यति, किं तदर्थेन ज्ञापकेन; न चैवं सति परमसपिः कुण्डमित्यत्रापि प्राप्नोति, सर्पिःशब्दस्य कुण्डेनासमासात्, किन्तु परमपिःशब्दः, उच्यते-यद्यपि परमपिःकरोत्युत्तरपदार्थप्रधाने समासे प्रधानस्यापेक्षया योगात् षत्वं सिद्धचति, तथापि परमं सपिर्यस्य सर्पिषः समीपं 5 सर्पिषो निष्क्रान्तमिति-परमसपिष्करोति, उपसपिष्करोति, निःसपिष्करोतीत्यत्र न सिद्धयति, सपि:शब्दस्य करोतिक्रियायाश्च व्यपेक्षाभावादिति तदर्थमिदं ज्ञापकमिति भावः ।। २. ३. १३ ।।
धातुष्पुत्र-कस्कादयः॥ २. ३. १४ ॥
भ्रातुष्पुत्रादयः कस्कादयश्च क-ख-प-फेषु परेषु रेफस्य स्थाने यथासंख्यं10 कृतषत्व-सत्वाः साधवो भवन्ति । भ्रातुष्पुत्रः, "ऋतां विद्या-योनिसंबन्धे" [३. २. ३७.] इति षष्ठ्या अलुप् , परमसर्पिष्कुण्डिका, परमधनुष्कपालम् , परमबहिष्पूलः, परमयजुष्पात्रम् ; अत्र सर्पिष्कुण्डिका-धनुष्कपाल-बहिष्पूलयजुष्पात्राणां पूर्वेण षत्वे सिद्धेऽपि समस्तार्थमिह पाठः, अन्ये त्वेषां समस्तानां षत्वं न मन्यन्ते, तन्मते तु-परमसपिःकुण्डिकेत्यादिषु षत्वं न भवति । कस्कः-15 वीप्सायां द्विवचनम् ; कुतः कुतः आगतः कौतस्कुतः; शुनस्कर्णः- “षष्ठयाः क्षेपे" [३. २. ३०.] इत्यलुप्; सद्यस्कालः- बहुव्रीहिरसमासो वा; सद्यः क्रयणं सद्यस्क्रीः, तत्र भवः-साद्यस्क्रः । भ्रातुष्पुत्र, सर्पिष्कुण्डिका, बहिष्णूल, यजुष्पात्र इति भ्रातुष्पुत्रादयः । कस्कः, कौतस्कुतः, शुनस्कर्णः, सद्यस्कालः, सद्यस्क्रीः, साद्यस्क्रः, भास्करः, अहस्करः, अयस्काण्डः, तमस्काण्डः, अयस्कान्त:,20 अयस्कुण्डः, मेदस्पिण्डः; अयस्पिण्ड इति कस्कादयः । बहुवचनमाकृतिगणार्थम्, तेन यथादर्शनमन्येऽपि भवन्ति । सर्वत्र नामिनः परस्य रेफस्य षत्वमन्यत्र सत्वं द्रष्टव्यम् ॥ १४ ।।
न्या० स०-भ्रातुष्पुत्र। साद्यस्नः सद्यस्क्रीशब्दादेव साद्यस्क्रस्य सिद्धत्वात् पृथगुपादानं प्रत्ययान्तरनिवृत्त्यर्थं, तेन सद्यस्क्रियो भावः-सद्यःक्रीता इत्यत्र न सत्वम् ।25 कौतस्कुतः गणपाठादण , अन्यथा "क्वेहामात्र०" [ ६. ३. १६. ] इति त्यच् स्यात्, किञ्च तसन्तस्य प्रथमान्तत्वेन “ततः० [६. ३. १४६. ] इति पञ्चम्यन्ताद् विधीयमानो न प्राप्नोति । केचित् त्वपञ्चम्यन्तादधि अमिच्छन्ति, सतस्तन्मतेन "तत आगते" [ ६. ३. १४६. ] इत्यनेन वाऽण । ननु द्वित्वे तत एकपदत्वाभावात् कथं “तत आगते"