SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ..... बृहद्वृत्ति-लघुन्याससंवलिते. [पा० ३. सू० १०-११.] सुचो वा ॥ २. ३. १० ॥ सुजन्तानां संबन्धिनो रेफस्य क-ख-प-फेषु परेषु षकारो वा भवति । द्विष्करोति, त्रिष्करोति, त्रिष्खनति, चतुष्पचति, चतुष्फलति; पक्षे जिह्वामूलीयोपध्मानीयौ विसर्जनीयश्च भवति-द्वि) (करोति, द्विः करोति; त्रि) (खनति, त्रिः खनति; चतु पचति, चतुः पचति; चतु फलति, चतुः 5 फलति । सुजन्तस्य चतुरः परत्वादनेन विकल्पो न तु पूर्वेण नित्यो विधिः । कखपफीत्येव-द्विश्चरति, त्रिस्तरति ।। १० ।। न्या० स०-सुचो वा। सुच इति न रेफस्य विशेषणं, तेन चतुष्पचतीत्यत्रापि विकल्पः, नह्यत्र सुचः स्थाने रेफ: "रात् सः" [२. १. ६०.] इति सुचो लोपात्, अतः सुजिति प्रकृतेविशेषणं, तत्र च तदन्तविज्ञानमित्याह-सुजन्तानामिति-एवं हि विज्ञायमाने 10 सुचो लोपेऽपि स्थानिवद्भावेन सुजन्त एवायं चतुःशब्द इति । न चैवं त्रिष्करोतीति त्रिशब्दस्यापि सुजन्तसम्बन्धित्वात् कस्मान्न भवतीति वाच्यम्, अनन्तरे कृतार्थत्वादिति ॥ २.३.१० ॥ वेस्ससोऽपेक्षायाम् ॥ २. ३. ११ ॥ इस् उस्प्रत्ययान्तस्य यो रेफस्तस्य क-ख-प-फेषु परेषु षो वा भवति,15 अपेक्षायां-स्थानिनिमित्तपदे चेत् परस्परापेक्षे भवतः । सर्पिष्करोति, सपिखादति, सर्पिष्पिबति, सर्पिष्फनायते; धनुष्करोति, धनुष्खण्डयति, धनुष्पतति, धनुष्फलति; परमसर्पिष्करोति, परमसपिष्पिबति, परमधनुष्पतति, परमधनुष्पठति ; पक्षे सपिः करोति, परमसर्पिः करोतीत्यादि । इसुस इति किम् ? पय) (करोति, पय-पिबति; इसुसोः प्रत्यययोर्ग्रहणादिह न भवति, मुनिः20 करोति, नदीभिः क्रियते, मुहुः पठति, भिन्द्य : पापानि; मुहुरित्यव्युत्पन्नमव्ययम् । इसा साहचर्यादुस औरणादिकस्य ग्रहणम्, तेनेह न भवति-चक्रुः कुलानि । त्याद्य स्यपीच्छत्यन्यः । अपेक्षायामिति किम् ? तिष्ठतु सपिः, पिब त्वमुदकम् । एकार्थीभावे च न भवति-परमसर्पिःकुण्डम् ।। ११ ।। न्या० स०--वेसु० । प्रत्यययोर्ग्रहणादिति-इह प्रत्यया-प्रत्यययो:०%25 *लक्षणप्रतिपदोक्तयो:०% अर्थवद्ग्रहणे नानर्थकस्य* इत्यनेन च इसुसोः प्रत्यययोग्रहणादिह न भवतीत्यर्थः ।। २. ३. ११ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy