________________
[पा० २. सू० १२२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २९७
आख्याग्रहणं किम् ? काश्यपप्रतिकृतिः काश्यपः, भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते, किं तहि ? प्रतिकृतिः । एक इति किम् ? संपन्नौ व्रीहि-यवौ, “मगधेषु स्तनौ पीनौ, कलिङ्ग ष्वक्षिणी शुभे” इत्यादावपि सव्येतरत्वलक्षणाऽवान्तरजातिद्वयोपाधियोगादेकत्वं नास्तीति बहुवद्भावो न भवति; जातिमात्रविवक्षायां तु भवत्येव-मगधेषु स्तनाः पीनाः, स्तनः पीनः; 5 कलिङ्गष्वक्षीणि शुभानि, अक्षि शुभमिति । असंख्य इति किम् ? एको व्रीहिः संपन्नः सुभिक्षं करोति, अत्र विशेषणभूतसंख्याप्रयोगोऽस्तीति 'एके व्रीहयः संपन्नाः सुभिक्षं कुर्वन्ति' इति न भवति ।। १२१ ।।
न्या० स०--जात्याख्यायां। वैषयिकेऽधिकरणे सप्तमी निमित्तसप्तमी वा। जात्यर्थस्येति-न जातिशब्दस्य, तथा सति संपन्ना यवा इति यवशब्दादेव जातिशब्दाद्10 बहुवचनं स्यात्, न संपन्नशब्दात् तद्विशेषरणभूतादिति, जात्यर्थस्य बहुवद्भावे संपन्नादिविशेषणान्यपि सामानाधिकरण्याद् यवादिशब्दोपात्ते जात्यर्थे वर्तन्त इति तेभ्योऽपि बहुत्वाश्रयं बहुवचनमुपपन्नमिति । चैत्रः, मैत्र इति-नेह जातिरभिधेया यदृच्छाशब्दत्वादमयोः, जातिहि सामान्यमुच्यते, यच्छबलशाबलेय-धवलधावलेयाद्यनेकव्यक्तिभेदेषु गौगौंरित्याद्यनुवृत्तप्रत्ययकारणमिति, यदि च बालकुमारादिभेदेऽनुवर्तमानमभिन्न रूपं जाति-15 रुच्यते तथा सति नाजातिः कश्चिच्छब्दार्थोऽस्ति, इति जातिग्रहणमनर्थकं स्यात्, तस्मात् सादृश्यसामान्यमिह जातिर्न स्वरूपसामान्यमिति । भवत्ययं जातिशब्द इति-"गोत्रं च चरणः सह" इति लक्षणेन परमाख्याग्रहणात् प्राधान्येन जातावभिधेयायां भवति, इह तु तद्विशिष्टा प्रतिकृतिराख्यायते इति । "मगधेषु स्तनौ पीनौ, कलिङ्गेष्वक्षिणी शुभे।
20 बाहू प्रलम्बावङ्गषु, वङ्गेषु चरणौ दृढौ" ।। २. २. १२१ ॥
अविशेषणे द्वौ चास्मदः॥ २. २. १२२ ॥
अस्मदो द्वावेकश्चार्थो वा बहुवद् भवति, अविशेषणे-न चेत् तस्य विशेषणं प्रयुज्यते । आवां ब्रूवः, वयं ब्रूमः, अहं ब्रवीमि, वयं ब्रूमः । अविशेषण इति किम् ? आवां गाग्यौं ब्रूवः, अहं पण्डितो ब्रवीमि, अहं चैत्रो25 ब्रवीमि । कथं नाटय च दक्षा वयम् ?, “त्वं राजा वयमप्युपासितगुरुप्रज्ञाऽभिमानोन्नताः" ?, “सा बाला वयमप्रगल्भमनसः" ? इत्यादि; दक्षत्वादीनां विधेयत्वेनाऽविशेषणत्वाद् भविष्यति, यदनूद्यमानमवच्छेदकं तद्विशेषणमिति ।