SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते [ पा० २. सू० १०७.] प्रसिद्धेन गवां दोहेन भावेनाऽन्यस्य गमनमप्रसिद्धं लक्ष्यते; एवं - देवाऽर्चनायां क्रियमाणायां गतः कृतायामागतः । गम्यमानेनाऽपि भावेन भावलक्षणे भवति-प्राम्रषु कलायमात्रेषु गतः, पक्वेषु ग्रागतः ; प्रत्र जातेष्विति गम्यते । गम्यमानमपि हि विभक्त निमित्तं भवति, यथा- वृक्षे शाखा, ग्रामे चैत्रः; अत्र भवति, वसति चेत्याधारनिमित्तं गम्यते । यत्र क्रियाsहरिणां कारकत्वं 5 तद्विपर्ययो वा, यथा-ऋद्धेषु भुञ्जानेषु दरिद्रा असते, ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते, यत्र च क्रियानर्हाणामकारकत्वं तद्विपर्ययो वा यथा - दरिद्र ष्वासीनेषु ऋद्धा भुञ्जते, दरिद्रेषु भुञ्जानेषु ऋद्धा प्रासते; तत्राऽपि भावो भावस्य लक्षणं भवतीत्यनेनैव सप्तमी । यद्ग्रहणं प्रकृत्यर्थम् । भाव इति किम् ? यो जटाभिस्तस्य भोजनम् । भावलक्षणमिति किम् ? यस्य भोजनं स मैत्र: 110 तृतीयाsपवादो योगः ।। १०६ ।। २८८ ] न्या० स०-- यद्भावो० । कलायमात्रेष्विति - कलायो मालवकप्रसिद्धोऽघमघान्यविशेषो मानमेषां स्यात् "मात्र" [ ७. १. १४५ ] इत्यनेन मात्रट् । यत्रेति प्रयमर्थःयत्र ऋद्धानां दरिद्राणां च भुजिक्रियामासनक्रियां च प्रति यथासंख्यं कारकत्वं, कोऽर्थः ? तां प्रति कर्तृत्वं तद्विपर्ययोऽकारकत्वं वा तत्रापि भावो भावस्य लक्षणमित्यनेनैव सप्तमी 15 सिद्धेति, यदन्यैः- “क्रियाहरणां कारकत्वं तद्विपर्ययो वा" ' यत्र क्रियानहरणामकारकत्वं तद्विपर्ययो वा " इति सप्तमीविधायकं सूत्रद्वयं कृतं तन्नारम्भणोयम्, यस्य भावो भावस्य लक्षणं ततो भाववतः सप्तमीष्यते, यद्ग्रहरणमन्तरेण चैतन्न लभ्यते इत्याह-यद्ग्रहणं प्रकृत्यर्थमिति । यो जटाभिरुपलक्षितस्तस्य भोजनमित्यत्र न भावो भावस्य लक्षणमपि तु द्रव्यम् । तृतीयापवाद इति - इत्थंभूतलक्षणेऽर्थे ।। २. २. १०६ ।। 20 गते गम्येseaनोऽन्तेनैकार्थ्य वा ।। २. २. १०७ ।। कुतश्चिदवधेविवक्षितस्याऽध्वनोऽवसानमन्तः, यद्भावो भावलक्षणं तस्याऽध्वनोऽध्ववाचिशब्दस्याऽध्वन एवाऽन्तेनाऽन्तवाचिना सहैकार्थ्यं सामानाधिकरण्यं वा भवति, तद्विभक्तिस्तस्माद् भवतीत्यर्थः ; गते गम्येगतशब्देऽप्रयुज्यमाने इत्यर्थः । गवीधुमतः सांकाश्यं चत्वारि योजनानि, चतुर्षु 25 योजनेषु गतेषु भवतीत्यर्थः ; एवं लोकमध्याल्लोकान्तमुपर्यधश्च सप्त रज्जूनामनन्ति, पक्षे - पूर्वेण सप्तमी; गवीधुमतः सांकाश्यं चतुर्षु योजनेषु, गतेष्विति गम्यते । गत इति किम् ? दग्धेषु लुप्तेष्विति वा प्रतीतौ मा भूत् । गम्य
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy