________________
२७२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० २. सू० ७८-७९.]
"गम्ययपः कर्माऽऽधारे" [२. २. ७४.] इति भविष्यति, धूमादिकमुपलभ्याऽग्न्यादिः प्रतिपत्तव्य इति ह्यत्राऽर्थः, ज्ञानहेतुत्वविवक्षायां तु हेतुत्वलक्षणा तृतीया भवति-धूमेनाग्निः, अनुपलब्ध्या घटाऽभावः, सत्त्वान्यथानुपपत्त्या सर्वमनेकान्तात्मकं प्रतिपत्तव्यमिति ।। ७७ ।।
न्या० स०-गुणाद। जडस्य भावः-दृढादित्वात् ट्यण । परिख्यातस्य भावः 5 "पतिराजान्त." [७. १. ६०.] इति टयण । अस्त्यत्राग्नि—मादित्युदाहरणत्रयं यथाक्रमं शैव-बौद्ध-जैनमतेन । सत्त्वान्यथेति-सत्त्वम्-उत्पाद-व्यय-ध्रौव्ययुक्तत्वम्, तस्य सत्त्वस्य, अन्यथा-अनेकान्तात्मकत्वमन्तरेण, अनुपपत्तेः-अघटनात् ।। २. २. ७७ ॥
आरादथै ॥२. २.७८ ॥
आराद् दूरा-ऽन्तिकयोः, तन्त्रेणोभयग्रहणम् ; दूरा, रन्तिकाश्च शब्द-10 युक्ताद् गौणान्नाम्नः पञ्चमी वा भवति । दूरं ग्रामात्, दूरं ग्रामस्य; विप्रकृष्टं ग्रामात्, विप्रकृष्टं ग्रामस्य; अन्तिकं ग्रामात्, अन्तिकं ग्रामस्य ; अभ्याशं ग्रामात्, अभ्याशं ग्रामस्य; संनिकृष्टं ग्रामात्, संनिकृष्टं ग्रामस्य । अारात्शब्दयोगे तु प्रभृत्यादिसूत्रेण नित्यमेव पञ्चमी । अथ दूरं हितं ग्रामात्, दूरं हितं ग्रामस्य भूयादित्यादौ हितादियोगे पञ्चम्यभावपक्षे “हित-15 सुखाभ्याम्" [२. २. ६५.] इति चतुर्थी कस्मान्न भवति ?, उच्यते-हितसुखादियोगे सा चतुर्थी, इह तु दूरान्तिकादिनैव योगो न तद्विशेषणेन हितादिनेति न भवति, यदा तु हितादिना विशेष्यतया योगस्तदा चतुर्थी भवत्येव । अन्ये त्वसत्त्ववचनैरेवाऽऽरादर्थं रिच्छन्ति ।। ७८ ।।
न्या० स०--आरादर्थः। दूरान्तिकादिनैव योग इति-कथं ? वर्तते, किं तत् 20 कर्तृ ? दूर, कस्य ? ग्रामस्य, किं भूतं दूरं ? हितमिति दूरशब्देनैव ग्रामस्य संबन्धो विवक्षितो न तु हितशब्देन । असत्त्ववचनैरिति-धर्ममात्रवृत्तिभिः। कारकशेषत्वात् षष्ठीप्राप्तौ वचनम् ।। २. २. ७८ ।।
स्तोका-अल्प-कच्छ-कतिपयादसत्त्वे करणे॥ २. २. ७६ ॥
यतो द्रव्ये शब्दप्रवृत्तिः स पर्यायो गुणोऽसत्त्वम्, तेनैव वा रूपेणाऽभि-25 धीयमानं द्रव्यादि; तस्मिन् करणे वर्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा