SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६६ श्रावकात् शृणोति ; प्रत्येकबुद्धादधिगच्छति । आख्यातरीति किम् ? उपाध्यायात् शास्त्रमागमयति, अत्र शास्त्रान्मा भूत् । उपयोग इति किम् ? नटस्य शृणोति, उपयोगविवक्षायां त्वत्राऽपि भवति - नटाद् भारतं शृणोति । अपादानत्वेनैव सिद्धे उपयोग एव यथा स्यादित्येवमर्थं वचनम् ।। ७३ ।। [पा० २. सू० ७४.] ० न्या० स० -- श्राख्यातयुं । नियमपूर्वकेति-नियमो विद्याग्रहणार्थं गुरुशुश्रूषादिकं 5 शिष्यवृत्तमाख्यायते, न तूपयोगमात्रं यत उपयोगमात्रं नटादपि भवत्यतस्तस्मादपि स्यात् पञ्चमी । श्रावकादिति-श्रावयतीति एकः । प्रत्येकेति - प्रत्येकम् - इन्द्रध्वजादिकं निमित्तमाश्रित्य बुद्धः - प्रत्येकबुद्ध: ।। २. २.७३ ।। मम्ययपः कर्मा-ssधारे ।। २.२. ७४ ॥ गम्यस्य-अप्रयुज्यमानस्य, यपो - यबन्तस्य यत् कर्म आधारश्च तत्र 10 वर्तमानाद् गौणान्नाम्नः पञ्चमी भवति ; द्वितीया - सप्तम्योरपवादः । प्रासादात् प्रेक्षते, आसनात् प्रेक्षते; प्रासादमारुह्यऽऽसने चोपविश्य प्रेक्षते इत्यर्थः । गम्यग्रहणं किम् ? प्रासादमारुह्य शेते, प्रासने उपविश्य भुङ्क्त े ; नह्यत्र यबन्तस्याऽप्रयोगे तदर्थः प्रतीयते । यग्रहणं किम् ? प्रविश पिण्डीम् प्रविश तर्पणम्, वृक्षे शाखा, ग्रामे चैत्रः ; अत्र हि भक्षय कुरु - अस्ति - वसतीनां 15 गम्यता न तु यपः । ननु यथा कुशूलादादाय पचतित-कुशूलात् पचतीत्यत्रादानाऽङ्ग े पाके पचेर्वर्तनादुपात्तविषयमेतदपादानमिति पञ्चमी भवति, एवमहाऽपि अपक्रमणाऽङ्ग दर्शने दृशेर्वर्तनाद् भविष्यति ; तथाहि - तत् ततोऽपकामति, अपक्रामद्धि न विषयं गृह्णीयात् सत्यम् - किन्तु प्रारुह्य उपविश्येति यबन्तार्थोऽपि गम्यते, ततो यथा यबन्ते प्रयुज्यमाने कर्मा - ऽधिकरणयोद्वितीया-20 सप्तम्यौ भवतस्तद्वदप्रयुज्यमानेऽपि तदर्थप्रतीतेस्ते प्रसज्येयातामिति सूत्रमारभ्यते ।। ७४ ।। * , न्या० स०—– गम्ययपः । एवमिहापीति प्रयमर्थः - प्रासादान्निः सृत्यापक्रम्य चक्षू रश्मिद्वारा प्रेक्षते, प्रासादान्निस्सरता चक्षुषा कृत्वा देवदत्तः प्रेक्षते वा । तत् तत्तोऽपक्रामतीति, अयमर्थः- ततः प्रासादादेः, तत् - चक्षुरादि, प्रपैति - निस्सरतीति तस्यापाये - 25 safधभूतत्वादपादाने पञ्चमी सिद्धैव । अनपक्रामद्धीति - एतन्नं यायिकमताभिप्रायेणोक्त, हि प्राप्यकारीणीन्द्रियाणि मन्यन्ते । दृशेर्वर्तनादिति दृशेरिति कोऽर्थः ? दृशिसमानार्थस्य ईक्षेरित्यर्थः ।। २. २. ७४ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy