SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू० ४२-४३.] “गतेर्नवानाप्ते” [ २. २. ६३ ] इत्यनेन ततश्चतुर्थी स्यात्; यदा गन्तेत्यत्र तृच् तदा मतान्तरेण ग्रामशब्दाच्चतुर्थी, स्वमते तु "कर्मरिण कृत:" [ २. २. ८३. ] इत्यनेन परत्वात् षष्ठ्येव भवति, यदा तु तृत् तदा " तृन्नुदन्त” [२. २. ६०. ] इति षष्ठीनिषेधात् स्वमतेऽपि चतुर्थी ॥। २. २. ४१ ।। काला - sध्वनोर्व्याप्तौ ।। २. २. ४२ ।। स्वेन संबन्धिना द्रव्य - गुरण - क्रियारूपेण कार्त्स्न्येन संबन्धो व्याप्तिः, अत्यन्तसंयोग इति यावत्, तस्यां द्योत्यायां कालेऽध्वनि च वर्तमानाद् गौणान्नाम्नो द्वितीया भवति । मासं गुडधानाः, मासं कल्याणी, मासमधीते; क्रोशं पर्वतः, क्रोशं कुटिला नदी, क्रोशमधीते । काला -ऽध्वनोरिति किम् ?, स्थाल्यां पचति । व्याप्ताविति किम् ? मासस्य मासे वा द्वयहं 10 गुडधानाः, मासस्य मासे वा एकरात्रं कल्याणी, मासस्य मासे वा द्विरधीते; कोशस्य क्रोशे वा एकदेशे - पर्वतः क्रोशस्य क्रोशे वा एकदेशे कुटिला नदी, क्रोशस्य क्रोशे वा एकदेशेऽधीते । षष्ठ्या सप्तम्या वा प्रयमपवाद:, तेन मासमधीते, क्रोशमधीते इत्यकर्मकत्वे इदमुदाहरणम्, कर्मत्वे "कर्मरिण” [ २. २. ४०. ] इत्येव द्वितीया सिद्धा । भावादपीच्छन्त्यन्ये—गोदोहं वक्रः, 15 गोदोहं बुद्बुदाः ।। ४२ ।। २४८ ] बृहद्वृत्ति-लघुन्याससंवलिते 5 न्या० स०-- काला-ऽध्वनो० । स्वेन संबन्धिनेत्यत्र "द्विहेतो०" [२. २. ८७.] इत्यनेन विकल्पेन षष्ठीविधानात् कर्तरि तृतीया । कार्त्स्न्येनेति सहार्थ तृतीया । संबन्ध इति प्रत्र कालाsध्वनोः कर्मतापन्नयोरिति गम्यम् । मासस्य मासे या द्वयहं गुडधाना इति त्र द्वहशब्दादनेन द्वितीया, मासशब्दात् तु व्याप्त रभावान्न, एवमुत्तरेष्वपि 120 क्रोशस्य क्रोशे वा एकदेश इति प्रत्रैकदेशशब्दाद् व्याप्त: संभवेऽपि अध्वनोऽभावादनेन द्वितीया न । कर्मकत्व इदमिति प्रयमर्थः यदा शास्त्रादिकर्मरणा इङ धातुः सकर्मको विवक्ष्यते तदा " कालाऽध्व-भाव- देशं वा०" [ २. २. २३. ] इत्यस्य प्राप्तिरेव नास्ति, तत्राऽकर्मणामिति भरणनात्, यदा त्वविवक्षितकर्मत्वेनाकर्मको धातुविवक्ष्यते तदा "काला-ध्व-भाव- देशं वा०" [ २. २. २३. ] इत्यस्य प्राप्तावप्यकर्मसंज्ञापक्ष प्रश्रीयते, 25 कर्मत्वपक्षे हि "कर्मरिण [ २. २. ४०. ] इत्येव सिद्धेः ।। २.२.४२ ।। सिद्धौ तृतीया ॥ २. २. ४३ ।। सिद्धौ - क्रियाफलनिष्पत्तौ द्योत्यायां कालाsध्ववाचिनो गौरणान्नाम्नः
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy