________________
[ पा० २. सू० ३१.]
अर्थमात्रं चोपचरितमपि,
यथा साहचर्यात् - कुन्ताः प्रविशन्ति छत्रिणो
गच्छन्ति; स्थानात् - मञ्चाः क्रोशन्ति; गिरिर्दह्यते; तादर्थ्यात् - इन्द्रः स्थूणा, प्रदीपो मल्लिका; वृत्तात् - यमोऽयं राजा, कुबेरोऽयं राजा; मानात् - प्रस्थो व्रीहिः, खारी मुद्गाः, धरणात् - तुला चन्दनम् ; सामीप्यात्- गङ्गातटं गङ्गा; योगात्-रक्तः कम्बलः; साधनात् - अन्न प्रारणाः, आयुर्धृतम् ; आधिपत्यात् - 5 ग्रामाधिपतिग्रमः । अलिङ्गमपि त्वम्, अहम्, पञ्च, षट्, कति, अलिङ्गसङ्खयमपि – उच्चैः, नीचैः, स्वः, प्रातः; शक्तिप्रधानमपि यतः, यत्र, यथा, यदा; द्योत्यमपि प्रपचति, प्रतिष्ठते, प्रतीक्षते, प्रतिपालयति ; स्वरूपमात्रमपि - अध्यागच्छति, पर्यागच्छति, प्रलम्बते, निषिञ्चति । तदयं वस्तुसंक्षेपःत्याद्यन्तपदसामानाधिकरण्ये प्रथमेति, यत्रापि त्याद्यन्तं पदं न श्रूयते - वृक्षः, 10 प्लक्ष इति, तत्रापि गम्यते, यदाह - 'यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते' इति । नाम्न इति किम् ? निरर्थकाद् वर्णाद् धातुवाक्याभ्यां च मा भूत् । एक-द्वि-बहाविति च सङ्करनिवृत्त्यर्थम् । चाव्ययेभ्य एकत्वाद्यभावादनेन प्रथमा न प्राप्नोति, सत्यम् - लुब्विधानात् तु विभक्तीनां विधिविज्ञायते तदन्तर्गतत्वाच्च प्रथमाया अपि तस्य च फलम् - 15 अथो स्वस्ते गृहम्, अथो स्वस्तव गृहमित्यादिषु “सपूर्वात् प्रथमान्ताद् वा " [२. १ ३२. ] इति विभाषया 'ते - मे' प्रदेशौ पदसंज्ञा च " अव्ययस्य " [ ३. २. ७. ] इत्यत्र वक्ष्यते । एक-द्वि-बहावित्यादिविभक्तिविधानादिति ।। ३१ ।
२३८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
ननु
न्या० स० -- नाम्नः प्रथ० । तत्रेति एवं स्थिते सतीत्यर्थः । तेष्विति पञ्चकस्य 20 नामार्थस्य क्रमेण लक्षणमाह-जातिरिति नित्यत्वैकत्वे सत्यनेकत्र समवेता जातिः, अत्र जातिलक्षणे नित्यपदाभावे पटेन व्यभिचार:, एकत्वाभावे विशेषेषु व्यभिचारः, अनेकत्राभावे परमाणौ विशेषेण व्यभिचारः । सम्बन्धादीति - प्रादिशब्दान्नित्यद्रव्यवृत्तयोऽन्त्या विशेषा प्रतीन्द्रियदृष्टिगम्या योगिसंवेदनीयाः, तेऽपि स्वार्थः । स्वार्थ इति-स्वस्यैवार्थः स्वार्थो विशेषणमसाधारणोऽर्थः प्रवृत्तिनिमित्तमिति । गौरिति-जातिरनुवृत्तप्रत्यय हेतु:, 25 तद्विशिष्टस्य द्रव्यस्य प्रतोतेर्जातिः स्वार्थः । शुक्ल इति गुणः शुक्लत्वादिः, शुक्लः पट इत्यादौ तद्विशिष्टस्य द्रव्यस्य प्रतीतेर्गुणः स्वार्थः । गर्गा इति गर्गस्यापत्यानि “गर्गादिर्यञ्” [६. १. ४२. ], “यत्रत्रौ ० ' [६. १. १२६. ] इत्यनेन लोपः । इति पञ्चालानां राष्ट्रस्य राजानः, पञ्चालस्य राज्ञोऽपत्यानि वा "राष्ट्र-क्षत्रियात् ०"
"
पञ्चाला