________________
[पा० २. सू० १६.]
श्रोसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २२५
. अत्र क्रियेत्यादि-क्रिया द्यूतरूपा, तत्साधनं चाक्षा इत्यर्थः । शतस्य सुदेवमितिअत्र 'सु' इति निपातान्तरं, नोपसर्गः, अत एव सुस्थितं दुःस्थितमित्यादौ "स्था-सेनि०" [२. ३. ४०.] इत्यनेन षत्वं न भवति ।। २. २. १८ ।।
करणं च ॥२. २. १६ ॥
दीव्यतेः करणं कर्मसंज्ञं चकारात् करणसंज्ञं च भवति, कर्म-करणसंज्ञे 5 युगपद् भजतीत्यर्थः । अक्षान् दीव्यति, अक्षाणां देवनम्, अक्षा दोव्यन्ते, अक्षा देवितव्याः, अक्षाः सुदेवाः, अक्षदेवः, अक्षा द्यूताश्च त्रेण; एषु कर्मत्वे द्वितीयाषष्ठयात्मनेपद-तव्य-खलण -क्तप्रत्ययास्तन्निमित्ताः सिद्धाः । अक्षर्दीव्यति, अक्षर्देवनम्, अक्षर्दीव्यते, अक्षर्देवितव्यम्, अक्षैः सुदेवं मैत्रेण, अक्षर्दूतं चैत्रेण, अक्षा देवनाः; एषु करणत्वे तृतीयाऽनटौ, भावे-आत्मनेपदादयश्च सिद्धाः ।10 प्रात्मनेपदादिभिश्चोक्तयोः कर्म-करणयोः द्वितीया-षष्ठी-तृतीया यथायोगं न भवन्ति । करणं वेत्येव सिद्धे चकारः संज्ञाद्वयसमावेशार्थः, तेनाक्षैर्देवयते मैत्रश्च त्रेणेत्यत्र करणत्वात् तृतीया भवति, कर्मत्वाच्च गत्यादिसूत्रेण नित्याकर्मकलक्षणमणिक्कर्तु: कर्मत्वम्, देवयतेश्च "अरिणगि प्राणि०" [३. ३. १०७.] इत्यादिनाऽकर्मकंलक्षणं परस्मैपदं न भवति । अथाक्षान् दीव्यतीत्यत्र सत्यपि15 संज्ञाद्वयसमावेशे परत्वात् करणत्वनिमित्तया तृतीययैव भवितव्यम्, नैवम्स्पर्धे हि परः, समानविषययोश्च स्पर्धः, न च द्वितीया-तृतीययोः प्रतिनियतकर्मकरणशक्त्यभिधायिन्योः समानविषयत्वमस्तीति द्वितीयाऽपि भवत्येव,
प्रतिकार्य संज्ञा भिद्यन्ते इति वा दर्शनेऽनवकाशत्वात् संज्ञाद्वयस्य विभक्त्योः पर्यायेण प्रवृत्तिरविरुद्धा । दिव इत्येव-दात्रेण लुनाति । करणमिति किम् ? 20 गृहे दीव्यति ।। १६ ।।
न्या० स०--कर०। चकारस्यान्यत् समुच्चेतव्यं नास्तीति करणमेव प्रतीयते, करणस्य कर्मसंज्ञायामप्राप्तायां विधीयमानायां निर्वादयो धर्मा न चिन्त्या असम्भवात् । युगपद् भजतीति-फलं भवतु मा वा, संज्ञाद्वयं तु सर्वप्रयोगेषु वेदितव्यम् ; न च संज्ञाद्वयं युगपन्निरवकाशमिति वाच्यम्, अक्षैर्देवयत इत्यत्र चरितार्थत्वात्, अत्राक्षान् देवयत इत्यपि25 प्रयोगो भवति । करणं वेत्येवेति-न च विकल्पेऽपि युगपत् संज्ञाद्वयं भविष्यतीति वाच्यं विकल्पस्य पाक्षिकप्रवृत्ति-निवृत्तिफलत्वात् । प्रतिकार्यमिति-एकस्यापि कर्मणः करणस्य वा कार्य कार्य प्रति संज्ञाऽभिधायकानि सूत्राणि भिद्यन्त इत्यर्थः। इति वा दर्शन इति