SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० १५-१६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २२३ "घटादेह्रस्वः" [ ४. २. २४. ] पक्षे निषिध्यते, तथा दस्युमुदजीजसदित्यादौ “उपान्त्यस्य." [ ४. २. ३५. ] इत्यस्यापि कि न निषेधः ? सत्यम्-* यस्मिन् प्राप्त एव० इति न्यायात् “घटादे:०" [४. २. २४. ] इत्यस्यैव निषेधः। ननु हिंसाया रुजारूपत्वात् "रुजार्थस्य०" [ २. २. १३. ] इत्यनेनैव कर्मविकल्पो भविष्यति, किमनेनेति ? अथ जास-नाट-क्राथेत्याकारश्रवणार्थमिदं सूत्रं विधीयते, तदा पिष्ग्रहणमनर्थकं स्यात्, तस्मात् 5 पूर्वेणैव सिद्धमित्याह-अभावकर्तृ कार्थमिति ।। २. २. १४ ।। नि-प्रेभ्यो नः ॥ २. २. १५ ॥ नि-प्राभ्यां परस्य हिंसायां वर्तमानस्य हन्तेाप्यं वा कर्म भवति, बहुवचनं समस्त-व्यस्त-विपर्यस्तसंग्रहार्थम् । चौरस्य निप्रहन्ति, चौरं निप्रहन्ति ; चौरस्य चौरं वा निहन्ति; चौरस्य चौरं वा प्रहन्ति ; चौरस्य10 चौरं वा प्रणिहन्ति; चौराणां निप्रहण्यते, चौरा निप्रहण्यन्ते राज्ञा । नि-प्रेभ्य इति किम् ? चौरं हन्ति, चौरमाहन्ति । हिंसायामित्येव-रागादीन् निहन्ति ।। १५ ।। न्या० स०-निप्रेभ्यो। निना सहितः प्रो निप्रः, प्रेण सहितो निः प्रनिः, निप्रश्च निश्च प्रश्च प्रनिश्च, यदा त प्र-निभ्यां पूर्वमुपसर्गान्तरं प्रयुज्यते तदा न भवति,15 बहुवचनेन ज्ञापितत्वात्, अन्यथा “वाभ्यवाभ्याम्" [४. १. ६६.] इतिवद् द्विवचनेनापि समस्तादिग्रहणमात्रं भवेत् । संग्रहार्थमिति-यद्येतदर्थं तहि न प्रदेयं, यत्रापि व्यस्तविपर्यस्तौ नि-प्रौ भविष्यतः, तत्रापि नेः प्राग् वा परो हन्नस्तीति, उच्यते-तहि-अन्योपसर्गपूर्वस्य हन्तेर्वा कर्मसंज्ञानिवृत्त्यर्थम्, तेन चौरं विप्रहन्ति विनिहन्ति वेत्यादौ पूर्वेण नित्यं कर्मसंज्ञा । प्रहन्तीति-अत्र "म्नां." [१. ३. ३६.] इति बहुवचनात् “हनः" [२. ३. ८२]20 इत्यनेन णत्वाभावः । रागादीन् निहन्तीत्यत्र रागादीनामचेतनतया प्राणव्यपरोपणलक्षणाया हिंसाया अभावान्न भवतीत्यर्थः ।। २. २. १५ ।। विनिमेय-द्यतपणं पण-व्यवहो ॥ २. २. १६ ॥ विनिमेय:-क्रय-विक्रेयोऽर्थः, द्यूतपणो-द्यूतजेयम् ; पणतेर्व्यवपूर्वस्य च हरतेयाप्यौ विनिमेयद्यूतपणौ वा कर्मसंज्ञौ भवतः । शतस्य पणायति, शतं25 परगायति ; सहस्रस्य सहस्र वा पणायति, क्रय-विक्रये द्यूतपणत्वे वा तद् विनियुक्त इत्यर्थः; एवं-दशानां व्यवहरति, दश व्यवहरति ; पञ्चानां पञ्च वा व्यवहरति । विनिमेय-द्यूतपणमिति किम् ? साधून पणायति-स्तौती
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy