________________
[ पा० २. सू० ६-७ . ] श्री सिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २१७
"
शिमुपादाय बोधार्थत्वेनैव सिद्धे दृशिग्रहरणा: दृशेरेव विशेषबोधार्थस्य परिग्रहो नान्येषामित्याचक्षते । खादयत्यपूपमिति - अत्र “चल्याहारार्थेङ ०' [ ३.३.१०८. ] इति परस्मैपदन् । आदयत्योदनमिति श्रत्र फलवत्त्वाभावात् "परिमुह०” [३. ३. ६४.] इति नात्मनेपदन्, मतान्तरेण वा प्रयोगोऽयम्, ते हि "परिमुह०" [ [ ३. ३. ६४. ] इत्यत्राद्धातुमपठन्त श्रात्मनेपदं नेच्छन्ति ।। २.२.५ ।।
5
भक्षैहिंसायाम् ॥ २. २.६ ॥
भक्षेः स्वार्थिकण्यन्तस्य हिंसार्थस्याणिक्कर्ता गौ कर्मसंज्ञो भवति । भक्षयन्ति सस्यं बलीवर्दाः, तान् प्रयुङ्क्ते - भक्षयति सस्यं बलीवर्दान् मैत्रः ; उक्त च कर्मरिण - भक्ष्यन्ते यवं बलीवर्दाः, भक्ष्यते यवो बलीवर्दान् मैत्रेणेति वा | वनस्पतीनां प्रसव - प्ररोह - वृद्धयादिमत्त्वेन चेतनत्वात् तद्विशेषस्य सस्यस्य 10 प्राणवियोगस्तद्भक्षणात् स्वाम्युपघातो वाऽत्र हिंसेति भक्षूहिंसार्थता | हिंसायामिति किम् ? भक्षयति पिण्डी शिशुः तं प्रयुङ्क्त - भक्षयति पिण्डीं शिशुना; भक्षयति राजद्रव्यं नियुक्तेन भक्षयति पुत्रान् गार्ग्या, भक्षयतिरत्राक्रोशे । श्राहारार्थत्वात् प्राप्ते नियमार्थं वचनम् ।। ६ ।।
न्या० स० - भक्षेहिसा० । भक्ष्यन्ते यवं बलीवर्दा इति यवानदतां यवानां विना-15 श्यत्वेन हिंसा । ननु हिंसा हि प्रारणव्यपरोपणलक्षणा, सा च प्रारिणन्येव सचेतने सम्भवति, कथमचेतने सस्ये ? नहि तत्रायुरिन्द्रियबलोच्छ्वासलक्षरणा रसमलधातूनां परिणतिहेतवः प्राणाः सन्तीत्यत आह- वनस्पतीनामिति । वृद्धघादिमत्वेनेति - वनस्पतयः सचेतना वृद्धादिमत्त्वात्, यो यो वृद्धिमान् स स सचेतनः, यथा पुरुषः, वृद्धयादिमन्तचं ते, तस्मात् संचेतना इति पञ्चावयवमनुमानमिति । भक्षयति पुत्रानिति - ननु पुत्रभक्षणस्य हिंसात्म-20 कत्वाद् भक्षयति पुत्रान् गार्ग्यति कथं कर्मत्वाभावः ? इत्याह-भक्षयतिरत्रेति नात्र गार्गी स्वयं पुत्रान् भक्षयति, न च तामन्यस्तत्र प्रयुङ्क्त े, अपि त्वेवमाक्रोशति - भक्षय पुत्रानिति भक्षिर्न हिंसाविषयः ।। २.२.६ ।।
वहेः प्रवेयः ॥ २. २. ७ ॥
प्रवीयते प्राजतिक्रियया व्याप्यते यः स प्रवेयः, वहेरणिक्कर्ता प्रवेयो 25 गौ कर्मसंज्ञो भवति । वहन्ति बलीवर्दा भारम् तान् प्रयुङ्क्ते नियोक्तावाहयति भारं बलीवर्दान्; वाहयिता बलीवर्दानां भारम् ; वाह्यन्ते भारं बलीवर्दा: । प्रवेय इति किम् ? वाहयति भारं मैत्रेण, नात्र मैत्रो बलीवर्दा