SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २१४ । बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ३.] पौरवः, अयं च याच्यमानो हृष्टो म्लानो वा भवतीति विकार्य कर्म, भिक्षते कोऽर्थः ? याचनापूर्वकं गां दापयति वियोजयतीति वेत्यर्थः । गामवरुणद्धीति-व्रजं सेवमानं सेवयतीत्यर्थः। पृच्छति कथापयति । चोदयतीति वादयतीत्यर्थः । वृक्षमवचिनोतीतिवृक्षः फलानि वियुङ क्त, तं वियोजयतीत्यर्थः । ब्रूते कथयन्तं कथापयति । अनुशास्ति ज्ञापयति । याचते कारयते । अनुनयार्थ इति-तेन भिक्ष्यर्थमध्ये याचिद्वाराऽनुनयार्थानां 5 न ग्रहः, भिक्षियच्यायामेव, याचिस्तूभयार्थ इति । जयति मोचयति । कर्षति कर्षयति । । करोति योजयति । मथ्नाति-वियोजयति । नयति प्रापयति। हरति वियोजयति प्रापयति वा। मुष्णाति त्याजयति, उपसरः-पुरुषविशेषो देशो वा, तत्र जातः, कोऽर्थः ? . परस्वामिक सन्तमात्मस्वामिकं करोति। वहति प्रापयति । गल्लाति त्याजयति । तण्डुलानोदनं पचति तण्डुलान् विक्लेदयन् विकुर्वन् प्रोदनं करोतीत्यर्थो धातूनामनेकार्थ-10 त्वादिति । दुहादीनामिति "दुहादेगौंरणकं कर्म, नीवहादेः प्रधानकम् । रिणगन्ते कर्तृ कर्मैवमन्यद् वा वक्ति कर्मजः" ।। 'येनापविद्धसलिलस्फुटनागसद्मा, देवासुरैरमृतमम्बुनिधिमंमन्थे । व्यावर्तनैरहिपतेरयमाहिताङ्कः, खं व्यालिखन्निव विभाति स मन्दराद्रिः ।।" 15 नेतव्या वा ग्राममजेति-अजादेः प्राधान्याने तुश्च पूर्वं तत्रैव क्रियाप्रवर्तनादन्तरङ्गत्वाच्च तत्रैव प्रधाने कर्मज इति । केचिदाहः-न अमी नयत्यादयो द्विकर्मका अन्यकर्मत्वात्, तथाहि-अजां नयति ग्रामम्-अजां गृहीत्वा ग्रामं यातीति ह्यत्रार्थः, नयतिस्तु प्रातिमात्र वाची, गम्यमानक्रियापेक्षयापि कर्मत्वं दृश्यते, यथा-'प्रविश, पिण्डी, द्वारन्' इति, भक्षणक्रियापेक्षया पिधानक्रियापेक्षया चेति, नैवम्-एवं सति 'अजा नीयते ग्राम न्'20 इत्यत्र कर्मण्युत्पद्यमानेनात्मनेपदेनाजाकर्मणोऽभिधानं न प्राप्नोति, यतो गृह्णाते रजा कर्म, न नयतेरिति, तस्मादन्यकर्मत्वमजाया नैष्टव्यमिति । अकर्मणामिति-नित्याकर्मकाणामविवक्षितकर्मकाणां चेत्यर्थः । प्रधान एव कर्मणोति-कर्तृकर्मणि कर्मजः प्रत्ययो भवतीति सम्बन्धः, प्राधान्यं च तस्य “गतिबोधाहारार्थ०" [२. २. ५.] इति कर्मसंज्ञाया विधीयमानत्वेन कृत्रिमत्वात् कर्तु: प्रथमप्रवृत्तिविषयत्वाद् वा। प्रधान एवेति-अन्यस्त्वप्रधानेऽ-25 पीच्छति तन्मतक्षेपणायात्रैवकारः। प्रासयति मासं मैत्रमिति-प्रास्ते मासं मैत्रः, तमासीनं परः प्रयुङ क्त, मासस्य "काला-ऽध्व-भाव." [२. २. २३.] इति कर्मसज्ञा, कालाऽध्व-देश-भावैश्च सर्वेऽपि धातवः सकर्मका इत्यन्यकर्मापेक्षया अकर्मका इह ग्राह्याः । बोधयति शिष्यं धर्ममित्यत्र वाक्यस्य धर्मप्रतिपादनपरत्वे धर्मस्य प्राधान्यं शिष्यादेर्गुणभावः, शिष्यादिसंस्कारपरयां तु प्रवृत्तौ शिष्यादेः प्राधान्यं धर्मस्य गुरणभाव इत्यूभयत्र 30 कर्मजः प्रत्यय इति। पाठयति शिष्यं ग्रन्थमिति-अर्थस्य शब्देन प्रतिपाद्यत्वाच्छब्दस्य प्राधान्यं, शब्दस्यार्थपरत्वादर्थस्यैव प्राधान्यमिति समर्थयन्ते गरीयांसो विद्वांसः । पयसा ओदनमिति-अत्र पय इति न व्याप्यमोदनापेक्षयाऽन्याङ्गत्वात्. यच्चाऽनन्याङ्ग तदेव व्याप्यमिति ।। २. २. ३ ।। .
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy