________________
[पा० २. सू० १.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः.
[ २०६
न्या० स०--उः पदान्ते। दिवमिति-कलापकेऽस्य दिवशब्दस्यामि सति अन्त्ययात्वं विकल्पेन भवति, ततो द्यामित्यपि भवति, शस्यपि विकल्पेनाकारमिच्छन्ति केचित् । अन्तर्वत्तिनीं विभक्तिमाश्रित्य पदत्वेऽनेनोत्वे कथं दिवाश्रय इत्यादीत्यत आहअकारागमे भविष्यतीति-अकारागमे चाकारागमकरणसामर्थ्यादेव उर्न विभक्त: पूर्व वाऽकारागमे पदान्तत्वाभावादेव वा। वृत्तिविषय इति-समासविषये प्रयुज्यते, केवलस्तु 5 . न प्रयुज्यत इत्यर्थः ।। २. १. ११८ ।।
।। इति द्वितीयाध्यायस्यस्य प्रथमः पादः ।।
अथ द्वितीयः पादः
क्रियाहेतुः कारकम् ॥ २. २. १॥
क्रियायाः हेतु:-कारणं कर्नादि कारकसंज्ञं भवति, तच्च द्रव्यारणां10 स्व-पराश्रयसमवेतक्रियानिवर्तकं सामर्थ्य शक्तिरित्याचक्षते; शक्तिश्च सहभूर्यावद्दव्यभाविनी च क्रियाकाल एवाभिव्यज्यते । करोतीति कारकमित्यन्वर्थसंज्ञासमाश्रयणाच्चानाश्रितव्यापारस्य निमित्तत्वमात्रेण हेत्वादेः कारकसंज्ञा न भवति । कारकप्रदेशा:-"कारकं कृता” [३. १. ६८.] इत्येवमादयः ॥ १ ॥
न्या० स०-क्रियाहेतुः०। क्रियत इति क्रिया "कृगः श च वा" [५. ३. १००.]15 "क्यः शिति" [३. ४. ७०.] “रिः श-क्या-ऽऽशीर्ये' [४. ३. ११०.] भाव-कर्मणोरिति व्युत्पत्तिः; यदा त्वपादानादौ शप्रत्ययस्तदा क्यो नास्ति, तदेयादेशः । क्रियायाः कारकमित्युक्त क्रियायां कमख्यत्वा तस्यैव कारकत्वं स्यात् गौरणमूख्ययो:०% इति न्यायात् । हेतु: कारकमित्युक्त तु द्रव्यस्य मुख्यत्वात् तद्धतोरेव कटं करोतीत्यादौ कारकत्वं स्यात्, न तु चैत्रो यातीत्यादौ। कारकशब्दः कर्तृ मात्रपर्यायः, कादीत्यत्र20 कर्तृ शब्दस्तु कर्तृ विशेषवचनः । यथाह पाणिनिः
स्वव्यापारे तु कर्तृत्वं, सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां, करणत्वादिसंभवः ।। १ ।। फलार्थी यः स्वतन्त्रः सन्, फलायारभते क्रियाम् । नियोक्ता परतन्त्राणां, स कर्ता नाम कारकम् ।।२।।
25