________________
[पा० १. सू० ६६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १८१
"धुटस्तृतीयः" [२. १. ७६.] इति दत्वाभावाद् दकारस्य श्रवणं न स्यात् । स्वनडुदितिअत्र बहुत्वे वाक्यं कार्य, एकत्वे तु "पुमनडुन्नौ०" [७. ३. १७३.] इति कच् स्यात् । क्वस्सितीति-क्वसोः ककारो "वसं निवासे” “वसिक आच्छादने" अनयोव्यू दासार्थः, तेन वसेः क्विपि यजादित्वाद् य्वृति दीर्घत्वे-ऊः, क्षौमं वस्ते क्विपि-क्षौमवः । अथ वसतिवस्त्योः सकारन्तत्वाव्यभिचाराद् व्यभिचारे च विशेषणस्यार्थवत्त्वाद् व्यभिचारिणः क्वस 5 एव ग्रहणं भविष्यति, कुतः ? वस्सिति सकारोपादानात्, नैवम्-अन्यथापि प्रतीतिः स्यात्, यङ लुबन्तयोरेतयोरेव ह्यस्तनीसिवन्तयोविशेषविहितत्वेन "सेः स्-द-धां च०" [४. ३. ७६.] इति सिवलोपाभावे वस्सिति द्विःसकाररूपं ग्रहणं स्यात्, इतीह मा भूदिति ककारकरणम् । रुत्व-ढत्वयोरेव बाधकमिति-अनडुह शब्दे "हो धुट-पदान्ते" [२. १. ८२.] इत्यनेन ढत्वस्य शेषेषु रुत्वस्य प्राप्तिः । प्राप्ते चाप्राप्ते चेति-क्लीबे विद्वत् कुलमित्या-10 दिष्वप्राप्ते, पुंस्त्वे तु विद्वानित्यादौ प्राप्ते इति तस्य न बाधकम् ।। २. १. ६८ ।। - ऋत्विज्-दिश-दृश-स्पृश-सज्-दधुरिणहो गः
॥२.१.६६ ।। एषां पदान्ते वर्तमानानां गोऽन्तादेशो भवति । ऋतुम् ऋतौ ऋतवे ऋतुप्रयोजनो वा यजते-ऋत्विक, ऋत्विग्; दिश्यते इति-दिक्, दिग्,; पश्यति15 दर्शनं वा दृक्, दृग; अन्य इव दृश्यते-अन्यादृग्, अन्यादृक् ; एवं-यादृग्, यादृक्; तादृग्, तादृक् ; घृतं स्पृशति-घृतस्पृग, घृतस्पृक्; मन्त्रेण स्पृशतिमन्त्रस्पृग, मन्त्रस्पृक्; सृज्यत इति क्रुत्-संपदादित्वात् क्विप्, अत एव निर्देशाद् ऋतो रत्वं च, “सृ गतौ” इत्यस्य वा कज्-स्रग्, स्रक्; धृष्णोतीति-दधृष्, अत एव निर्देशाद् द्वित्वम्-दधृग, दधृक् ; ऊर्ध्वं स्निह्यति नह्यति वा, अत एव 20 निर्देशाद् उदो दकारस्य लोपे सस्य षत्वं, नहेर्नकारस्य च ष्णिरादेशः-उष्णिग्, उष्णिक्; ऋत्विग्भ्याम्, दिग्भ्याम्, घृतस्पृग्भ्याम्, स्रग्भ्याम्, दधृग्भ्याम्, उष्णिग्भ्याम् । पदान्त इत्येव-ऋत्विजौ, दिशौ, दृशौ, घृतस्पृशौ, स्रजौ, दधृषौ, उष्णिहौ ।। ६६ ।।
न्या० स०--ऋत्विज्० । ऋत्विगिति-प्रयोजनं प्रवर्तको यस्येति वाक्ये "मयूर०"25 [३.१.११६. ] इति प्रयोजनशब्दलोपः, अत एव निपातनाद वा ऋतप्रयोजन इति कथनं वा, तत्र पक्षे ऋतुना हेतुभूतेन यजत इत्यर्थः । ननु 'ऋत्विग्-दिग्- ग' इति गान्ता निपाता: क्रियन्तां, किं गविधानेन ? सत्य न्-गनिपातने गत्वसंनियोगशिष्टतैव ज्ञायेत, ततो व्यावृत्तौ दधृषौ, उष्णिहाविति न स्याता, गत्वे तु विहिते निपातनं सर्वत्र भवति, गत्वं तु पदान्त एव भवतीति । स्रगिति-सरति मस्तकादिकमिति "ऋधि-पृथि०" [ उणा० ८७४.]30