________________
१७४ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० १. सू० ६०. ]
स्त्री, पुनवौं, पुनर्ध्वः । वर्षाभूः - प्रोषधीविशेषो दर्दुरश्व, वर्षाभ्वौ, वर्षाभ्वः । कारे कारेरण वा भवतीति - कारभूः, कारभ्वौ, कारभ्वः । करशब्देनापीच्छन्त्येके - करभ्वौ, करभ्वः । काराशब्देनाप्यन्ये- काराभ्वौ. काराभ्वः । दूनादिभिरिति किम् ? स्वयंभुवौ प्रतिभुवौ, मित्रभुवौ, विभुवौ, श्रात्मभुवौ । पूर्वेणैव सिद्धे नियमार्थमिदम् - एतैरेव भुवो नान्यैरिति ।। ५६ ।।
न्या० स० -- वृन् - पुन० । दून् हिंसनिति - "दृह दृहु" इति धातुः, दृहतीति क्विपि तल्लोपे सिलोपे च "पदस्य' [ २. १. ८६. ] इति हलोपे दृन् इति रूपम् । वर्षाभूरिति "भेक्यां पुनर्नवायां स्त्री, वर्षाभूदु दु रे नषस्त्रीण पुमान् । इति वैजयन्तीकारः । कारेति - क्रियत इति-कारः, राजलभ्यो भागः । करम्वाविति उभयं शाकटायनः, स हि करशब्द पठित्वा कर-कारशब्दयोरेकार्थत्वाद् एकदेशविकृतं तदेव इति कारशब्दे - 10 नापीच्छति, काराशब्दं तु देवनन्दी | स्वयंभुवाविति अत्रापि "दिद्युद्ददृत्०” [५. २. ८३.] इत्यादिना क्विप् न तु " शंसंस्वयम् ०" [ ५. २. ८४.] इत्यादिना डुः, तदा हि धातुत्वं न स्यात् । एतैरेवेति प्रकृतिनियमोऽयम्, एतैर्योगे भुव एव नान्यस्य धातोरिति तूपपदनियमो न भवति, "अस्वयंभुवोऽव्” [७. ४. ७०.] इति सूत्रनिर्देशात्, एवंविधे हि नियमे क्रियमाणे एतैर्भुव एव नान्यस्येत्यन्ये धातवो नियन्त्रिताः स्युः, भुवस्तु एतैरन्यैश्च योगे वत्वं 15 स्यात्, तथा च 'अस्वयंभुवः' इति न स्यात् ।। २. १. ५६ ॥
ण - षमसत् परे स्यादिविधौ च ।। २. १. ६० ।।
इतः सूत्रादारभ्य यत् परं कार्यं विधास्यते तस्मिन् पूर्वस्मिश्च स्याद्यधिकारविहिते विधौ कर्तव्ये णत्वं षत्वं च प्रसद् - प्रसिद्धं द्रष्टव्यम्, एतत्सूत्रनिर्दिष्टयोश्च रणत्वषत्वयोः परे षत्वे त्वमसद् द्रष्टव्यम्, रण- शास्त्रं वा परे20 स्यादिविधौ च शास्त्रे प्रवर्त्तमानेऽसद् द्रष्टव्यम् । पूष्णः, तक्ष्णः, अत्र णत्वस्यासत्त्वादनोऽकारलोपो भवति । पिपठी:, अत्र षत्वस्यासत्त्वात् सकारस्य रुर्भवति । स्यादिविधौ च प्रर्वारणौ, सर्पीषि; अत्र गत्व- षत्वयोरसिद्धत्वादुपान्त्यदीर्घत्वं सिद्धम् । असत् पर इत्यधिकारो "रात् सः " [२. १. ६०.] इति यावत् स्यादिविधौ चेति तु "नोर्म्यादिभ्यः " [२१ ६६.] इति 25 यावत् ।। ६० ।
न्या० स० -- -- षम० । गो विधेयत्वेन एष्वस्तीत्य भ्राद्यकारे गशब्देन गत्वविधायकानि सूत्राण्युच्यन्ते, एवं षशब्देनापि षत्वविधायकानि । एतत्सूत्रनिद्दष्टयोरिति