________________
१६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ४३-४४.]
किम् ? त्यद्, तद्, त्यौ, तौ । त्यदादिसम्बन्धिविज्ञानादिह न भवति-प्रियत्यद्, प्रियैतत् पुमान् । प्रा द्वरित्येव-भवती ।। ४२ ।।
न्या० स०--तः सौ स इति । भवतीति- नामग्रहणे०* इति न्यायादत्रापि सत्वे भवसीति स्यात्, नपुसके सेरभावात् पुल्लिङ्ग तु से: स्थानित्वेन सत्वे कृतेऽपि "पदस्य" [ २. १. ८६. ] इति सलोपे विशेषाभावात् स्त्रियामुदाहृतम् ।। २. १. ४२ ॥ 5
अदसो दः सेस्तु डौ ॥ २. १. ४३ ॥
त्यदादिसंबन्धिनि सौ परेऽदसो दकारस्य सकारादेशो भवति, सेस्तु डौ। . असौ, असकौ; हे असौ !, हे असकौ विद्वन् ! ; असौ, असकौ स्त्री; हे असौ ! , हे असकौ स्त्रि !। सावित्येव-अदः, अमू । त्यदादिसंबन्धिविज्ञानादिह न भवति-अत्यदाः । डित्करणमन्त्यस्वरादिलोपार्थम्, तेन "ौता"10 [१. ४. २०.], “एदापः" [१. ४. ४२.], “दीर्घङयाब्व्य ञ्जनात् सेः" [१. ४. ४५.], "अस्यायत्तत्क्षिपकादीनाम्" [२. ४. ११०.] इति कार्याणि न भवन्ति, अन्यथा सेस्त्वौरित्येव क्रियेत ।। ४३ ।।
न्या० स०-अदसो० । असाविति-सेरनेन डौ "डित्यन्त्यस्वरादेः" [२. १. ११४.] . इत्येव कार्य, न तु “पा द्वरः" [ २. १. ४१. ] इति प्रक्रियालाघवार्थं डित्करणस्य सर्व-15 कार्यबाधकत्वेन व्याख्यास्यमानत्वाच्च । हे असौ! हे असकौ विद्वन्निति-पत्र औरित्यपि कृते तदादेशा०% इति से: स्थानित्वेऽपि “अदेतः स्यमो:०" [ १. ४. ४४. ] इत्यस्य न प्रसङ्गः, सिद्वारेणाऽमोऽपि लुपि सिद्धायां यत् अम्ग्रहणं तदन्यस्य स्यादेशस्य निवृत्त्यर्थमिति तत्र व्याख्यानात् । कार्यारिण न भवन्तीति-एतानि च स्त्रियां प्राप्नुवन्ति, तथाहिअदसशब्दात् सौ अनेन प्रौकारे "पा द्वरः" [२.१.४१.] इत्यत्वे आपि औव्यपदेशे20 "ौता" [ १. ४. २०. ] इत्यस्य, सिव्यपदेशे तु आमन्त्र्ये “एदापः" [ १. ४. ४२. ] इत्यस्य, अनामन्त्र्ये तु “दीर्घड्याब्०" [ १. ४. ४५. ] इत्यस्य, अकि तु “अस्यायत्तत्" [ २. ४. १११.] इत्यस्य प्राप्तिः । अय "ौता" [ १.४.२०.] इत्यत्र प्रथमाद्वितीयाद्विवचनेनेति व्याख्यानात कथं सिस्थानौकारस्य प्राप्तिः, सत्यम्-अत्रैवं स्थिते तत्रैवं व्याख्यातमिति “अौता" [ १. ४. २०. ] प्राप्नोत्येव ।। २. १. ४३ ।।
25 असुको वाकि ॥ २. १. ४४ ॥
त्यदादिसंबन्धिनि सौ परेऽदसोऽकि सति 'असुक' इति दस्य सः सकारात् परस्याकारस्योकारः सेश्च डौत्वाभावो वा निपात्यते । असुकः,