________________
[पा० १. सू० ११.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १४५
बलोय:* इति न्यायात् युवा-ऽऽवादय एवादेशाः प्राप्स्यन्ति न त्वमहमादयः, सत्यम्परत्वाद्-विशेषविहितत्वेन प्रकृष्टत्वादित्यर्थः ।। १० ।।
त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् ॥ २. १. ११ ॥
एकत्वविशिष्टेऽर्थे वर्तमानयोर्युष्मदस्मदोर्मकारान्तस्यावयवस्य स्वसम्बधिन्यन्यसम्बन्धिनि वा स्यादौ परे प्रत्ययोत्तरपदयोश्च परयोर्यथासंख्यं 'त्व 5 म' इत्येतावादेशौ भवतः । त्वाम्, माम् ; त्वया, मया; त्वद्, मद्; त्वयि, मयि; अतिक्रान्तौ त्वाम्-अतित्वाम्, प्रतिमां तिष्ठतः; अतिक्रान्तं त्वां मां वा-अतित्वाम्, प्रतिमां पश्य; अतित्वान्, अतिमान्; अतित्वया, अतिमया; अतित्वाभ्याम्, अतिमाभ्याम् ; अतित्वाभिः, अतिमाभिः; अतित्वाभ्याम्, अतिमाभ्यां देहि; अतित्वभ्यम्, अतिमभ्यम् ; अतित्वत्, अतिमत्; अति-10 त्वाभ्याम्, प्रतिमाभ्यामागतम् ; अतित्वद्, अतिमद्; अतित्वयोः, अतिमयोः स्वम् ; अतित्वाकम्, प्रतिमाकम् ; अतित्वयि, अतिमयि; अतित्वयोः, अतिमयोः; अतित्वासु, अतिमासु । सि-जस्-डे-डस्सु पुनः परत्वात् त्वमहमादयो भवन्ति । प्रत्ययोत्तरपदयोः खल्वपि-तवायं-त्वदीयः, मदीयः; त्वन्मयम्, मन्मयम् ; त्वामिच्छति-[मामिच्छति वा-] त्वद्यति, मद्यति; त्वमिवाचरति-15 त्वद्यते, मद्यते; त्वया कृतं मया कृतं-त्वत्कृतम्, मत्कृतम्; त्वत्पुत्रः, मत्पुत्रः; त्वद्धितम्, मद्धितम् ; त्वत्प्रधानः, मत्प्रधानः । त्वामाचष्टे-[मामाचष्टे वा-] त्वदयति, मदयति' इत्यत्र नित्यत्वादन्त्यस्वरादिलोपात् प्रागेव त्वमादेशौ । कश्चित् तु 'पूर्वमन्त्यस्वरादिलोपे त्व-मादेशे अकारस्य वृद्धौ प्वागमे'-त्वापयति, मापयति; क्विपि तु-'त्वाप्, माप्' इत्याह । एकस्मिन्निति20 किम् ? युष्माकम्, अस्माकम् । एकत्वेन युष्मदस्मदोविशेरणादिह न भवतिअतिक्रान्तं युष्मान्-[अस्मान् वा-] अतियुष्माम्, अत्यस्माम् ; अतियुष्मया, अत्यस्मया; अतियुष्मद्, अत्यस्मद्; अतियुष्मयि, अत्यस्मयि, । प्रत्ययोत्तरपदे चेति किम् ? त्वय्यधि, अधियुष्मद्, अध्यस्मद् । अन्तरङ्गत्वात् स्यादिद्वारेणैव त्व-मादेशे सिद्धे प्रत्ययोत्तरपदग्रहणं बहिरङ्गाऽपि लुप् अन्तरङ्गान् विधीन्25 बाधते इति न्यायज्ञापनार्थम्, तेन-'यद्, तद्' इत्यादावन्तरङ्गमपि त्यदाद्यत्वादि न भवति । एके तु निमित्तनिरपेक्षमेकत्वविशिष्टेऽर्थे वर्तमानयोस्त्व