________________
१३४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
स्वम्पि; पि ।। ८ ।।
अत्याम्पि, प्रत्यम्पि;
[ पा० ४. सू० ९० - ६१.]
समासान्तविधेरनित्यत्वात् बह्वाम्पि
अभ्वादेरत्वसः सौ ॥ १.४. ६० ॥
अत्वन्तस्यासन्तस्य च भ्वादिवर्जितस्य संबन्धिनः स्वरस्य शेषे सौ परे दीर्घो भवति । तु भवान् कृतवान्, गोमान् यवमान्, एतावान्; अस् - 5 अप्सराः, अङ्गिराः, चन्द्रमाः, स्थूलशिराः सुमनाः । अभ्वादेरिति किम् ? पिण्डं ग्रसते - पिण्डग्रः, चर्म वस्ते - चर्मवः । * प्रर्थवद्ग्रहणे नानर्थकस्य इत्येव सिद्धे अभ्वादेरिति वचनम् अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति इति न्यायज्ञापनार्थम्, तेनात्रापि भवति - खरणाः, खुरणाः । अधातोरित्यकृत्वाऽभ्वादेरिति करणं भ्वादीनामेव वर्जनार्थम्, तेनेह 10 भवति - गोमन्तमिच्छति क्यन् क्विप् गोमान् एवम् - स्थूलशिराः । शेष इत्येव ? हे भवन् !, हे सुमनः ! । 'अतु' इति उदितकररणादृदितो न भवति - पचन्, जरन् ।। ६० ।।
न्या० स० – प्रभ्वादेरित्यादि । भवानिंति-नोऽन्ते सत्यपि प्रागमोऽनुपघातेन इति न्यायाद भवत्येव दीर्घः ।। ६० ।।
क्रुशस्तुनस्तृच् पुंसि ॥ १. ४. ६१ ॥
क्रुशः परो यस्तुन् तस्य शेषे घुटि परे तृजादेशो भवति, पुंसि - पुंलिङ्गविषये । क्रोष्टा, क्रोष्टारौ, क्रोष्टारः, क्रोष्टारम्, क्रोष्टारौ, प्रतिक्रोष्टा, प्रियक्रोष्टा । बहुव्रीहौ प्रसिद्धं बहिरङ्गमन्तरङ्ग इति ऋदिल्लक्षणः कच् न भवति । पुंसीत्येव ? कृशक्रोष्टूनि वनानि । घुटीत्येव ? क्रोष्टून् । शेष 20 इत्येव ? हे क्रोष्टो ! । "क्रोष्टोः क्रोष्टृ" इत्यकृत्वा तृज्वचनं तृस्वस्रादिसूत्रेणाऽऽरर्थम् ।। ६१ ॥
न्या० स० - कुशस्तुन इत्यादि - तृजावेश इति - प्रादेश इत्युक्त सकलस्यापि तुनस्तृजादेशो भवति तथा चोक्तम्
“एकस्यावयवस्य यो भवति स प्रोक्तो विकारो बुधैरादेशस्त्वसभूरिव प्रकटितः सर्वोपमर्दात्मकः " ॥
15
25