________________
[पा० ४. सू० ६३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ १२१
वा भवति, यथा पुंसि नागम-ह्रस्वौ न भवतस्तथाऽत्रापि न भवत इत्यर्थः । ग्रामण्या ग्रामणिना कुलेन, ग्रामण्ये ग्रामणिने कुलाय, ग्रामण्यः ग्रामणिनः कुलात्, ग्रामण्यः ग्रामणिनः कुलस्य, ग्रामण्योः ग्रामणिनोः कुलयोः, ग्रामण्याम्, ग्रामणीनां कुलानाम्, ग्रामण्याम् ग्रामणिनि कुले ; एवम्-कळ, कर्तृणा, कर्ने कर्तृणे, कर्तुः कर्तृणः, कों: कर्तृणोः, कतृणाम् २, कर्तरि कर्तृणि; 5 शुचये शुचिने, शुचेः शुचिनः, शुच्योः शुचिनोः, शुचौ शुचिनि; मृदवे मृदुने, मृदोः मृदुनः, मृद्वोः मृदुनोः, मृदौ मृदुनि; चित्रगवे चित्रगुणे, अतिराया अतिरिणा; अतिनावा अतिनुना; अहंयवें अहंयुने; कुमारीवाचरतीति क्विप्, कुमारीवेच्छतीति क्यन्, क्विप्, कुमार्य कुमारिणे कुलाय । अन्यत इति किम् ? त्रपुणे, जतुने, पीलुने फलाय । टादाविति किम् ? ग्रामणिनी शुचिनी10 कुले । स्वर इति किम् ? ग्रामणिभ्यां कुलाभ्याम्, ग्रामणिभिः कुलैः । नामिन इत्येव ? कीलालपेन कुलेन । नपुंसक इत्येव ? कल्याण्यै ब्राह्मण्य ।। ६२ ॥
न्या० स०-वाऽन्यत इत्यादि । पुंवद् वेति-परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेणापि वत्यर्थं गमयति, यथाऽग्निर्माणवक इति, तथा अत्रापि परार्थो नपुसकस्तत्र हि15 प्रयुक्तः पुमानिति । ग्रामणिनेति-ननु पूर्व "क्विब्वृत्तेरसुधियस्तौ" [२. १. ५८.] इत्यादिना यत्वं कस्मान्न भवति ? सत्यम्-“इदुतोस्त्रेरीदूत्" [१. ४. २१.] इत्यत्र स्त्रीवर्जनेन 'परमपि इत्युव्यत्वादि इदुदाश्रितेन बाध्यते' इति भरणनात्, यद्वा आदेशादागम० * इति न्यायाद् यत्वं बाधित्वा नोऽन्तः । ग्रामण्येति-ग्रामणीशब्दस्यानेनं पुवत्त्वे ह्रस्वनागमाभावः । कतृ णामिति-द्वयोरपि "ह्रस्वापश्च" [१. ४. ३२.] इति नाम्, न त्वपुस्त्व-20 पक्षे “अनामस्वरे०" [१. ४. ६४.] इत्यनेन नोऽन्तः, तत्रामो वजितत्वात्, द्वितीयप्रयोगो रूपनिर्णयार्थो दर्शितः । न तु तस्य किञ्चिदत्रान्यत् फलम् । चित्रगवे इति-अत्र चित्रा गावो यस्येति "क्लीबे" [२. ४. ६७.] ह्रस्वत्वम्, तत् पुस्त्वे सति निवर्तते, ततश्च "गोश्चान्ते ह्रस्वः०" [२. ४. ६६.] ह्रस्वः, ततो "ङित्यदिति" [ १. ४. २३. ] इत्योत्वम् । कुमार्य इति-अत्र यद्यपि कुमारीशब्दः पुवत् तथापि नित्यस्त्रीविषयत्वादी-25 कारस्य "स्त्रीदूतः” [ २. ४. २६. ] इति दैः ।। ६२ ।।
दयस्थि-सक्टयक्ष्णोऽन्तस्याम् ॥ १. ४. ६३ ॥
'दधि, अस्थि, सक्थि, अक्षि' इत्येतेषां नपुंसकानां नाम्यन्तानामन्तस्य तत्सम्बन्धिन्यन्यसम्बन्धिनि वा टादौ स्वरे परे 'अन्' इत्ययमादेशो भवति ।