________________
[पा० ४. सू० ५८-५९.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ११६
न्या० स०-प्रतः स्येत्यादि । नन्वत्रादग्रहणं किमर्थम् ? न च वाच्यम्-अद्ग्रहणाभावे दधीत्यत्राप्यमादेशः स्यात्, यतः "अनतो लुप्" [ १. ४. ५६. ] इति सूत्रं बाधकं विद्यत इति, ननु अनत इत्यत्र पर्युदासः प्रसज्यो वा नञ् गृह्यत इति संदेहः, न च वाच्यम्-पर्युदासे हि “नामिनो लुप्" [ १. ४. ६१. ] इति सूत्रं कुर्यात्, तस्मात् प्रसज्य एवेति, कतः ? काष्ठा परं प्रकर्षमध्यापक इत्यत्र क्रियाविशेषणत्वेन आकारादप्यमो लग 5 दृश्यते, अतोऽनत इति कर्तव्यमेव, अतः संदेहस्तदवस्थ एव, अतोऽग्रहणेन ज्ञाप्यते-प्रसज्य एव गृह्यते, तथा च पय इत्यादौ लुप् सिद्धा, न त्वमादेशः। अत इति नपुसकस्य विशेषणम्, अतस्तदन्तप्रतिपत्तिर्भवतीत्याह-अकारान्तस्येति । अम्ग्रहणमुत्तरार्थम्, तेनान्यत् पश्येति सिद्धम् ।। ५७ ।।
पञ्चतोऽन्यादेरमेकतरस्य दः ॥ १. ४. ५८ ॥
10
नपुंसकानामन्यादीनां सर्वाद्यन्तर्वतिनां पञ्चपरिमारणानां सम्बन्धिनोः स्यमोः स्थाने द इत्ययमादेशो भवति, एकतरशब्दं वर्जयित्वा; प्रकार उच्चारणार्थः । अन्यत् तिष्ठति, अन्यत् पश्य; एवम्-अन्यतरत्, इतरत्; कतरत् तिष्ठति, कतरत् पश्य; एवम्-कतरत्, ततरत्; कतमत् तिष्ठति, कतमत् पश्य; एवम्-यतमत्, ततमत्, एकतमत्; हे अन्यत् ! , हे अन्यतरत् !,15 हे इतरत् !, हे कतरत् !, हे कतमत् !, हे एकतमत् ! । अनेकतरस्येति किम् ? एकतरं तिष्ठति, एकतरं पश्य । पञ्चत इति किम् ? नेमं तिष्ठति, नेमं पश्य । नपुंसकस्येत्येव ? अन्यः पुरुषः, अन्या स्त्री। अन्यादिसम्बन्धिनोः स्यमोर्ग्रहणादिह न भवति-प्रियान्यम्, अत्यन्यं कुलम् । इह तु भवतिपरमान्यत् तिष्ठति, परमान्यत् पश्य, अनन्यत् ।। ५८ ।।
न्या० स०-पञ्चत इत्यादि-पञ्च संख्या परिमाणमस्य “पञ्चद् दशद् वर्गे वा" [६. ४. १७५.] इति डत् प्रत्ययः ।। ५८ ।।
20
अनतो लप॥१. ४. ५६ ॥
अनकारान्तस्य नपुंसकस्य सम्बन्धिनोः स्यमोर्लुप् भवति । दधि तिष्ठति, पश्य वा, एवम्-मधु, कर्तृ, पयः, उदश्वित् । अनत इति किम् ? कुण्डं 25 तिष्ठति पश्य वा। लुकमकृत्वा लुप्करणं स्यमोः स्थानिवद्भावेन यत् कार्य तस्य प्रतिषेधार्थम्-यत्, तत्, अत्र त्यदाद्यत्वं न भवति ॥ ५६ ॥