________________
१०२ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० ४. सू० २६-२७.]
डिर्डों ॥ १.४.२५ ॥
इदुदन्तात् परो ङिः सप्तम्येकवचनं डौर्भवति प्रभेदनिर्देशश्चतुर्थ्येकवचनशङ्कानिरासार्थः, डकारो ऽन्त्यस्वरादिलोपार्थः । मुनौ साधौ, बुद्धी, धेनौ, अतिस्त्री, विंशतौ । अदिदित्येव ? बुद्धयाम्, धेन्वाम् ।। २५ ।।
न्या० स० - ङिर्डाविति । बुद्धधामिति - ननु दाम्करणसामर्थ्यादेव डौर्न स्यात्, 5 किं व्यावृत्तावदितीति दर्शनेन ? न " ङित्यदिति" [१.४.२३.] इत्येत्वनिषेधकत्वेन तस्य चरितार्थत्वाद् डौः स्यादिति व्यावृत्तिः सफला, यथा "इश्व स्था - द :” [ ४. ३. ४१.] इत्यत्र सिच्लोपविधायकत्वेन ह्रस्वकरणस्य चरितार्थत्वे गुणबाधकं कित्कररणम्, किञ्च, यथासंख्यार्थं "स्त्रिया ङिताम् ०" [ १.४.२८.] इत्यत्र दाम्ग्रहणं कार्यम्, अन्यथा इदं सूत्रमन्यथा उत्तरं चान्यथा कार्यं स्यात्, तथा च गरीयसी रचना स्यादिति ।। २५ ।।
10
केवल सखि - पतेरौ ।। १. ४. २६ ॥
केवलसखि - पतिभ्यामिदन्ताभ्यां परो ङिरौर्भवति । सख्यौ, पत्यौ । पताविति कश्चित् । इत इत्येव ? सखायमिच्छति क्यनि दीर्घत्वे सखीयतीतिक्विपि यलोपे सखीः, सख्यि, एवम् - पत्यि । केवलग्रहणं किम् ? प्रियसखौ, नरपतौ, पूजितः सखा सुसखा, तस्मिन् सुसखौ; एवमतिसखौ, ईषदून: सखा 15 बहुसखा, बहुसखौ, एवम् - बहुपतौ; एषु पूर्वेण डौरेव । अन्ये तु बहुप्रत्ययपूर्वादपि पतिशब्दादौकारमेवेच्छन्ति, तन्मते - बहुपत्यौ ।। २६ ।।
न्या० स०—केवलेत्यादि । कश्चिदिति दुर्गसिंहश्रुतपालादिः । सख्यि इति - अत्र "स्थानीवावर्णविधौ” [ ७. ४. १०६. ] इति न्यायात् क्विपः स्थानित्वे सति “य्वोः प्वय्०” [ ४. ४. १२१. ] इति यलोपः कस्मान्न भवति ? प्रसिद्धं बहिरङ्गम् ० * इति20 न्यायात् अन्तरङ्ग क्विवाश्रिते कार्ये यत्वमसिद्धं द्रष्टव्यम् । श्रन्ये त्विति - शाकटाय नादयः ।। २६ ॥
न नाडिदेत् ॥ १. ४. २७ ।।
केवलसखि-पतेः परस्य टावचनस्य नादेशो ङिति परे एकारश्च य उक्तः स न भवति । सख्या, पत्या, सख्ये, पत्ये, सख्युः पत्युः आगतं स्वं वा, सख्यौ, 25 पत्यौ । ङिदिति एतो विशेषणं किम् ? जस्येद्भवत्येव - पतयः । केवलादित्येव ? प्रियसखिना, सुसखिना, बहुसखिना, साधुपतिना, बहुपतिना, प्रिय