________________
[पा० ३. सू० १६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ६५
पीच्छन्ति-षट् त्सीदन्ति, भवान् त्साधुः; पक्षे षट् सीदन्ति, भवान् साधुः । स इति किम् ? षड् भवन्ति, महान् षण्डः । अश्च इति किम् ? षट् श्च्योतन्ति, भवान् श्च्योतति । श्च्युतेः सोपदेशत्वाच्छकारस्य सकारोपदिष्टं कार्य विज्ञायते, तेन मधु श्च्योततीति क्विप्, मधुश्च्युतमाचष्ट इति णावन्त्यस्वरादिलोपे, पुन: क्विपि, णिलोपे, सौ, तल्लुकि च, यलोपे, “संयोगस्यादौ 5 स्कोर्लुक्" [२. १. ८८.] इति शलोपे, चस्य कत्वे 'मधुग्' इति सिद्धम् ।। १८ ।।
न्या० स०-ड्-न इत्यादि-डश्च नश्च ड्-नम्, ततोऽस्वराद् ङसिः, विग्रहस्तु उच्चारणार्थ स्वरेण क्रियते, यथा 'घतादिकमानय' इत्यक्त द्रवदद्रव्यत्वात केवलस्य दुरानयनत्वाद् भाजने आनोयते । षड् त्सोदन्तीति-"पदान्ताट् टवर्गात्" [१. ३. ६२.]10 इति निषेधात् “तवर्गस्य०" [१. ३. ६०.] इति न टत्वम् । 'षड्' इति प्रयोगस्थो डकारः सूत्रे अनुकृतस्तत एव "अघोषे प्रथमोऽशिट:" [१. ३. ५०.] इति टत्वं न भवतीत्याहडकारनिर्देशादिति । भवान् त्साधुरिति-अथात्र नकारस्य "नोऽप्रशान०" [१. ३. ८.] इत्यनुस्वाराऽनुनासिकपूर्वः सकारः कस्मान्न भवति ? उच्यते-'अधुट्परे' इति वचनात्, अत्र हि धुट्परस्तकार इति । षट्श्च्योतन्तीति-अत्र “सस्य श-षौ" [१. ३. ६१.] इत्यत्र15 'अनु' इत्यधिकारे वर्तमाने श्चवर्जनाभावे दन्त्यसकारस्य त्सः स्यादिति । ननु तर्हि उपदेशावस्थायामेव तालव्यः पठनीयः, किं दन्त्यपठनेनेति,? सत्यम्-दन्त्यं पठन्नेवं ज्ञापयति-दन्त्यापदिष्टं कार्य तालव्यस्यापि भवति, परं दन्त्यस्थाननिष्पन्नस्य न सर्वस्य, तेन 'भवान् शेते' इत्यादौ त्सो न भवति । ननु 'मधुग्' इत्यत्र “स्वरस्य परे०" [७. ४. ११०.] इति सूत्रेण णिलोपरूपस्य स्वरादेशस्य स्थानिवत्त्वात् शलोपो न20 प्राप्नोति, न च वाच्यं “न सन्धि०" [७. ४. १११.] इत्युपतिष्ठत इति, 'अस्कलुकि' इति वचनोत्, यथा सुपूर्वात् कुस्मयतेः सुकूरित्यत्र, न-'अस्कलुकि' इत्यत्र नत्र निर्देशन नत्रा निर्दिष्टमनित्यम् ७ इति न्यायात् स्थानित्वाभाव इति ।। १८ ।।
नः शि ञ्च् ॥ १. ३. १६ ॥
पदान्ते वर्तमानस्य नकारस्य स्थाने शि-शकारे परे 'ञ्च्' इत्ययमादेशो25 वा भवति, अश्व:-श्च्संयोगावयवश्चेच्छकारो न भवति । भवाञ्च् छूरः, भवाञ्च् शूरः, पक्षे-भवाञ् शूरः; एवम्-कुर्वञ्च् छेते, कुर्वञ्च् शेते, कुर्वञ् शेते; अादेशबलात् कत्वं न भवति । शीति किम् ? भवान् करोति । अश्च इत्येव ? भवाञ् श्च्योतति । 'राजा शेते' इत्यत्र तु परत्वान्नलोपः ।। १६ ॥