________________
: १४ :
ग्रन्थकृता
" गतिक्विति” प्रतीक एव उपन्यस्तः, ईदृशेषु स्थलेषु - "गतिक्व० " ३।११४२ इति - इति निर्देशोऽस्माभिरस्मिन् सम्पादने विहितः । इत्येवमन्यत्रापि सन्धित्यागेन सूत्राणां प्रतीकानां निर्देशाः सम्प्रति उच्चार्यमाणसूत्राणां सौकर्यार्थं तत्र तत्रास्माभिर्विहिता इति ध्येयम् ।
इह पारायणे सर्वधातूनां विवरणे यदि तत्समानो धातुः अन्यस्मिन् गणे वर्तते तदा तस्य निर्देशः आचार्यैर्विवरणस्यान्ते कृतः । अस्माभिः तेषाम् अन्यगणीयधातूनां गणधातुसूचकाङ्कानि ईशे [ ] चतुष्कोणके दत्तानि ।
यत्र च द्वयोः त्रयाणां वा धातूनाम् एक एव अर्थ, तत्र धातुपाठे अन्तिमधातोरेव गणसूचकानुबन्धो दृश्यते, अथ च तेषां पृथक् पृथक् पारायणे प्रारब्धे हस्तलिखित प्रतिषु क्वचिद् अनुबन्धो दृश्यते क्वचिच्च न, अस्माभिरेषु स्थलेषु सर्वत्रानुबन्धो न्यस्तः । यथा - . पृ. १७२, पं. ९ श्वसक् ।
चुरादौ पूर्व मुद्रितसंस्करणे २६३, २६४ धातवो पश्चात् पुनरपि २६३ A २६४ A इति अङ्के दत्ते, अस्माभिस्तु अनुक्रमेण सर्वेषामङ्कं दत्तम्, अतः पूर्वसंस्करणे चुरादौ ४१३ धातवः अस्मदीये तु ४१५ धातवः ।
क्वचित् क्वचित् अत्रत्यः सिद्धहेम० सूत्रपाठः प्रचलित सिद्ध हेम पाठादू भिन्नो दृश्यते । अस्माभिरेतादृशस्थले प्रचलितपाठः स्वीकृतः, अत्रत्यपाठस्तु टिप्पण्यां निर्दिष्टः । यथापृ. १४६, टि. १, २ ।
अत्रत्यपाठस्य तदविषयसङ्गतैः अन्यग्रन्थैः सह यत्र यत्र शब्दशः अर्थशो वा साम्यं दृष्टं तत्र तत्र तुलनार्थ टिप्पण्यां निर्देशः कृतः । यथा पृ. १५२, टि. १ । पृ. ३३८, टि. १ । पृ. ३४०, टि १... ।
क्वचिद उणादिसूत्रस्य धातुपारायणीयः पाठः उणादिसूत्रप्रकरणाद् भिन्नो दृश्यते, तद्भिन्नताऽपि टिप्पण्यां दर्शिता । यथा- पृ. १८४, टि. २ | पृ. २०३, टि. २ | पृ. २२०, टि. १ ।
क्वचित् अमुक शब्दो येन उणादिसूत्रेणेह साधितः, स शब्दः तत्सूत्र विवरणे न साक्षाद् उपलभ्यते, आदिशब्देन ग्राह्यो भवति, अथ च स एव शब्दः अन्योणादिसूत्र विवरणे साक्षाल्लभ्यते, अस्माभिः टिप्पण्यां क्वचिन्निदर्शितमेतद् । यथा पृ. १४४ । टि. १ उपसंहारः
प्रुफाद्यवलोकने अनवधानादिना शीसकाक्षरभङ्गाद् वा जाता अशुद्धयः शुद्धिपत्रके दर्शिताः । अतः शुद्धिपत्रकमनुसन्धायैव ग्रथोऽध्येतव्यो विद्वद्भिः । अन्या अपि याः काश्चन अत्र दृष्टिपथ - मवतरेयुस्ताः सर्वा अपिः संशोध्य सफलयन्तु अस्माकं परिश्रमं ग्रन्थपठन-पाठन पर्यालोचनेन इति सप्रश्रयम् अभ्यर्थयामहे ।
स्खलना