________________
१०५३ ] धातुपारायणे भ्वादयः (१) इति तु यौजादिकस्य घन्ताद् वा णिचि “जासनाटकाथ० " २।२।१४ इति निर्देशाद् वा हस्वाभावे ॥ * १०४६ क्लथ' । क्लथति, क्लथयति ॥
अथ दान्तौ सेटौ च ॥ १०४७ छद ऊर्जने' । ऊर्जनं प्राणनं बलं च । छदण् संवरणे इति पठिष्यमाणोऽपि ऊर्जने घटादिकार्यार्थमिह पठितः । छदयति अग्निः स्वार्थ णिच, छादयन्तं प्रयुङक्ते इति णिग् वा । ऊर्जनादन्यत्र छादयति गृहं तृणैः ।। ___ १०४८ मदै हर्षग्लपनयोः' । मदेच् हर्षे इति अनयोरर्थयोः घटादिकार्यार्थमिह पठितः । मदयति गुरु शिष्यः । मदयति सुरा चैत्रम् , हर्षयतीत्यर्थः । 'मदयति शत्रुम् , विमदयति शत्रुम् , ग्लपयतीत्यर्थः । अन्यत्रानेकार्थत्वाद् उन्मादयति, प्रमादयति ॥
अथ नान्ताः पञ्च सेटश्च ॥ १०४९ टन १०५० स्तन १०५१ धन शब्दे' । “पः सो०" २१३९८ इति सत्वे स्तनति, स्तनयति । षोपदेशत्वात् " नाम्यन्तस्था० " २।३।१५ इति षत्वे तिष्टनयिषति ॥
'१०५० स्तन' । स्तनति, स्तनयति । अमोपदेशत्वात् षत्वाभावे तिस्तनयिषति ।।
'१०५१ ध्वन' । ध्वनति, धनयति । दध्वान, ध्वनयनाशाः । अन्त्यो पूर्वपठितो अपि अर्थविशेषे घटादिकार्थमिहाधीतौ । अनेकार्थत्वाद् अर्थान्तरे, स्तानयति । शब्दे अपि स्तानयति इत्यन्ये, ध्यानयति ॥
'१०५२ स्वन अवतंसने' । स्वनति । णो हुस्वे स्वनयति, अवतंसयतीत्यर्थः । "जभ्रम० " ४।१।२६ इति वा एत्वे द्वित्वाभावे च स्वेनतुः, सस्वनतुः, स्वेनुः, सस्वनुः । पूर्वपठितस्याप्यस्यार्थविशेष घटादिकार्यार्थमिह पाठः । शब्दे तु स्वानयति ॥
१०५३ चन हिंसायाम् ' । चनति । णौ ह्रस्वे चनयति । शब्दे तु चानयति । पूर्वपठितोऽप्ययम् अर्थविशेषे घटादिकार्यार्थमिहाधीतः ॥
१ अन्यत्र म इति मु०॥