________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नकुलस्तु दीप्ताशातो गृहं प्रविशन् सव्ययम् । कुरुते भषमाणः श्वा विशन् गेहमसद्वययम् ॥ ३१ ॥ श्वनकुलौ शान्तदीप्तौ विशन्तो विफलौ मतौ । रतं शकुनिकायास्तु दृष्टं लाभकरं नृणाम् ॥३२॥ बहिणो यस्य गेहोर्ध्व भ्राम्यन्ति लीलया खलु । सुखवार्ता सदा तेषां कथयन्त्यचिरादपि ॥३३॥ गृहोपरिष्टानीडं न शुभं देवगृहोपरि । स्वचक्रशङ्का देशस्य कुर्याद्दुष्टोऽपरो न हि ॥३४ ॥ वभित्तौ गृहे ग्रामे शकुनिका घना यदि । तत्र राजभयं कुयु-निविशन्त्यो भयेऽशुभाः ॥ ३५ ॥ यस्योपविष्टस्याशायां शान्तायां मुश्वती पलम् । तस्य लाभं ददात्यर्थ---व्ययं दीप्तदिशि स्थिता ॥३६॥ निविष्टा दिशि शान्तायां शकुनिर्भक्षती पलम् । प्राधूर्णकागमं कुर्या-द्दीप्तायां तस्करागमम् ॥३७॥ मृतं मुश्चति यस्याग्रे सर्पमन्यधनाप्तये ।। ततो राजोपद्रवञ्च कपदं वृद्धिहेतवे ॥ ३८ ॥ शीऐं यस्योपविशति दक्षिणांशे च वामके । शाकिनीभयदा बन्धु-~-पीडा श्वशुरकष्टकृत् ॥३६॥ चतुःपथे कृष्णसर्प ग्रामस्य नगरस्य वा । शकुनी मुश्चति स्थानं तद्राज्ञा दण्डयतेऽचिरात् ॥४०॥
For Private and Personal Use Only