________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
अग्रे देवी खगः पृष्टे तारगौ सन्धिकारिणौ । वितारगौ घातकरौ वाम शब्दं विधाय तौ ॥ २३ ॥ चतुष्पदध्वजच्छत्रो-परिशब्दा जयावहा । चतुष्पदकचाकर्ष कुर्वन्ती हानिकारिणी ॥ २४ ॥ परराष्ट्रं मांसवक्ता हस्तगं वक्ति चण्डिका ।। वस्त्रणमुखी घाते पलान् बन्धयते युधि ॥२५॥ स्थानस्थितानां सूर्यास्ते प्राच्या कुर्यादुमा धनिम् । नृपप्रसादं कुरुते शान्तेऽतिथ्यागमाय च ॥२६॥ दीप्ते तु ध्वनिता दुर्गा सा किश्चिदुक्तहानये । उदयेऽस्ते वा दक्षिणस्यां ग्रामात्सा क्षेमलाभदा ॥ २७ ॥ शुभा सदैव कौवेर्या-मध्रुवान् स्थापयत्यलम् । शैवाग्नेय्योः सदा भीत्यै वायव्यां दुःखिनः शुभा ॥ २८ ॥ सुखिनश्चाशुमा किञ्चित् पाण्डवी ध्वनिता सती ।। ब्रह्मस्थाने च मध्याह्न कलिघातग्रहादिकृत् ॥३१॥ गेहान्तर्ध्वनिता भीत्यै पट्ट तु स्वामिमृत्यवे ।। शय्यायां महिलाकष्टं दुर्गायाः कुरुते खः ॥३०॥ पालने बालकष्टाय गृहमध्ये विजायते । शून्यकृद्भवनद्वारे समक्ष्या ध्वनिताभदा ॥३१॥
For Private and Personal Use Only