________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाटीभिये स ईशाने सर्वदिक्षु न शोभनः । स्थानस्थितस्यैककालं सर्वदा सर्वथा त्यजेत् ॥५॥ गृहीतपरवित्तस्य वामः क्षेमाय दक्षिणः ।. वाहरामेलकः पृष्टे प्रवेशे दक्षिणोऽशुभः ॥६॥ प्रामे प्रविशतामस्ते सन्ध्यायर्या चौरभीतिदः । क्षेत्र षण्मासपर्यन्तं ग्रामे च वत्सरावधि ॥७॥ प्रवेशसीमायात्रायां सर्वेषु फलमीदृशम् ।। रागिणोऽर्थे रोगघाती वामः शान्तदिशि स्थितः ॥८॥ दक्षिणो दिशि दीप्तायां दीर्घरोगाय सम्मतः । मुधा शून्ये प्रवेशे तु शून्यस्थो रोगिघातकः ॥ ॥ इत्याचार्य श्रीमाणिक्यसूरिविरचिते शाकुनसारोद्धारे
तृतीयं तित्तिरिप्रकरणं समाप्तं ॥३॥
अथ दुर्गा
भस्मैन्धोङ्गारविष्टाश्म-विलास्थिकण्टकाकुलम् । चिताशवादिविकृत-मिति स्थानं जुगुप्सितम् ॥१॥ दुर्गागति शुनश्चेष्टां नैव ये भैरवारवम् । जानन्ति शकुनज्ञास्ते कथ्यन्ते कषिभिः कथम् ॥२॥ दुर्गा प्रवासिनः वामा शुमा दक्षिणगामिनी । तथाविधा द्वितीयापि राज्या दिपदलाभदा ॥३॥
For Private and Personal Use Only