________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहे स्थावरार्थे च सन्तानार्थे शुभा न सा । पुत्रपौत्रादिसन्तान-वृद्धय कार्यत्रयं न हि ॥२०॥ विफला सा वयोऽजीता वृद्धय वर्धापनं मतम् । फलानि फलदाणि द्राक्षाम्रादीनि यायिनाम् ॥ २१ ॥ आमानि च वराणि स्युः कष्टाय मध्यमानि तु । पक्कानि फलजातिस्तु शेषाल्पाल्पफला मता ॥ २२ ।। कार्यनाशं विनष्टा सा-प्याम्ला दुःखाय केवलम् । गदिता रिक्तभाण्डं तु कुरुते न फलोइयम् ॥ २३ ॥ नीरस्य घट एकः स्या-त्सम्पूर्ण: पूर्णलाभदः । अर्धपूर्णोऽर्धलाभाय विघटं कामितार्थदम् ॥२४॥ नरशीस्थितं तच्च सर्वसिद्धिनिबन्धनम् व्यङ्गं तदल्पलाभाय रिक्तं भग्नं हितं न तत् ॥ २५ ॥ द्विघटं नैव वन्द्यं स्यात् क्रमान् गत्वा विशेषतः । तावद्भिदिवसास-स्तद्गेहे शोकसम्भवः ॥ २६ ॥ अनतः सङ्गुलं स्थालं भाग्यहीनाः प्रवासिनः । न पश्यन्ति स्त्रियो हस्ते यथान्धा वस्तु सञ्चयम् ॥ २७ ॥ सफलं पुत्रलाभाय दुर्वाश्रीखण्डसंयुक्तम् । साधकं सर्वकार्याणां पात्रमक्षतसकुलम् ॥२८॥ सानर्थलाभदं तच्च व्यङ्ग्यस्त्रीपाणिपङ्कजे । शुभः स्यादशुभः किश्चित् परिणेतु वरो व्रजन् ॥ २६ ॥
For Private and Personal Use Only