________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३०
॥६३॥
दृष्टो विशेषलाभाय सपर्याणः पदाप्तये । विफलो घोटकस्त्रस्तो निन्द्यश्वारूढपाण्डवः ॥६॥ चतस्वामिकोऽश्वः स्याश्चित्तचिन्तितसिद्धये । farai सुरतक्रीडा दृष्टादौ भोगलब्धये ॥ ६२॥ दम्पत्योः सुरतं दृष्ट राज्यादिपदलाभदम् । तदेव विफलं प्रान्ते गतबीजं द्वयोरपि सद्यः प्रसूता सुरभी सवत्सा कामधेनुवत् । हीनाङ्गाल्पफला सापि वृष एकः सदा शुभः ॥६४॥ किं पुना रश्मिना बद्धौ वृषौ द्वौ सम्मुखौ यदि । तयोमध्ये मयेदेको यद्यग्रे शुभदौ तदा 11211 तौ समौ तुच्छलाभाया - थैकोऽग्रे पृष्ठगः पुरः I रश्मिहस्तो नरो मध्ये भङ्क्त्वा कार्य तु सिद्धिदौ ॥६६॥ ग्लानार्थे मृत्युदं मांसं रश्मिवद्धो वृषो यथा 1 शब्दमाद्यः परोऽप्येष गृह्यते यमकिङ्करैः ॥६७॥ सम्मुख सिद्धये मद्य - वारूणी किन्तु हस्तगा । उन्मत्तस्य विकलस्य सापि तुच्छफलोदया ॥६८॥ सर्वेषां वन्यजीवानां मांसं कार्यकरं मतम् I तुच्छं शशकमसिं च सर्पमांसं च दुःखदम् ||६|| मांसं जलजजीवानां कुरुचिल्ल विना शुभम् । अजामांसं सदा श्रेष्टं खुरशीर्ष वहिः कृतम् ॥ १०० ॥
For Private and Personal Use Only