________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
दिवसे च सोमवंश्या- न्यर्धे न निशि सर्वतः । मूढकः शकटा रूढोऽभिमुखो भोगवित्तदः ॥ ७१ ॥ आदर्शोऽभिमुखः श्रेष्ठो वक्त्रं तत्र विलोक्यते । नेचते यदि तत्रास्यं मृतिघातादिभीस्तदा ॥ ७२ ॥ संमुखा रोचना भव्या लतां विषलतां विना | पुष्पजातिः समग्रापि रक्तपुष्पं विना शुभा ॥ ७३ ॥ विशेषादग्रथितं पुष्पं सकामार्थदं पथि । Rareerद्वयं भव्यं पट्ये कोपरि लाभदा ॥ ७४ ॥ सैव चिन्ताप्रदा मध्ये एकं वस्त्रमशोभनम् । बहूनि बहुलाभाय तच्च सम्मदितं शुभम् ॥७५॥ तदेवाशोभनं धौतं प्रत्यक्षोद्वेगहेतवे । तूलिकाभिमुखा श्रेष्ठा सा निन्द्या निन्द्यहस्तगा ॥७६॥ कर्णादिभूषणं स्त्रीणां देवाभरणमुत्तमम् । प्रधानधातु निष्पन तुच्छं काच विनिर्मितम् ॥ ७७ ॥ पित्तलत्रपुताम्रादि-निर्मितं न हितं भवेत् । सोद्वेगलाभदं ताम्रा - भरणं कैश्चित्कीर्यते ॥ ७८ ॥ घटितो वाप्यघटितः शुभो धातुः शुभप्रदः । हानि कुत्कुत्सितो धातु-लहं सर्वाधमं द्विधा ॥ ७६ ॥ शुभधातुभवा देव मूर्तिर्भव्या परा न हि । पन्मृतिरपि श्रेष्ठा पूज: हल्पफला परा ॥ ८० ॥
--
For Private and Personal Use Only