________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
परस्त्रीणां च सम्भोगे तेषां लक्ष्मीविकर्षणम् । महिष्यश्वीगा भोगे ध्रुवमारोग्यता दिशेत् ॥३०॥ नाभौ वल्लीद्रुमादीनां प्ररोहे राज्यमुत्तमम् । अन्त्राणां वेष्टनं दंगे तदीशत्वप्रकाशकम् ॥३१॥ सर्पदंशाकरे लाभः साहस्रो दशमे दिने । श्वेतसर्पस्य भृङ्गस्य भ्रमर्या वृश्चिकस्य च ॥३२॥ जलौकसो गजाध्वंसः स महालाभहेतवे । रज्जूभिनिगडैबन्धो विवाहः सुतकारकः ॥३३॥ मरणं स्वायुषो वृद्धय महासन्मानलाभदम् । शूलारोहो राज्यदायी चर्मप्रावरणाद्धनम् ॥३४॥ शास्त्रपाठो विवेकाय भक्ष्यपाकश्च लाभदः । घते वादे रणे चैव जयो विजयते ध्रुवम् ॥३५॥ राज्यं च शिरसो भेदा-त्सप्तधातुवधात् त्रिधा । गोशृङ्गतारासूर्येन्दु-श्रतकीलालपानतः ॥३६॥ नाभेजलोद्भवाच्चैव ध्वजालिङ्गनतस्तथा । सिंहसपव्याघ्रघाता-मणिपात्रे च भोजनात् ।।३७।। गिरिद्रुमोन्मूलनाच्च राज्यमेव विनिर्दिशेत् । स्वाङ्गकर्तनतः सौख्यं दर्पणस्यापि लाभतः ॥३८॥ मुद्रावीणास्रजो लाभात् पृष्ठमानी समागमम् । पातात प्रतोलीदुर्गादे-निभयत्वं चिरं भवेत् ॥३॥
For Private and Personal Use Only