________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंडव-मुन्नघर-मुसाणलेणपावणे अन्नम्मि य एवमादिमि दग-मट्टिय-बीज-हरित-तसपाणअसं सत्ते अहाकड़े फासुए विवित्ते पसत्थे उवस्सए होई विहरियव्वं, श्राहा कम्मबहुले य जे से आसित-संमजिअ-श्रोवलित्तसोहिय-बायण-दूपणलिंपण-अणुलिंपण-जलण-भंडचालण अंतो बहिं च असंजमो जत्थ वदति संजयाण अहा वज्जेयब्बो हु उवस्मो से तारिसए मुत्तपडिकुठे । एवं विवित्तवासवसहिसपितिजोगेण भावितो भवति अंतरप्पा निचं अहिकरणाकरणकरावणपावकम्मविरतो दत्तमणुनाय ओग्गहरुत्ती। रथादीनां रक्षणगृहं, कुप्यशाला गृहोपकरणशाला, मंडपः यज्ञाद्युत्सवे (निर्मितवस्त्रगृहविशेषः ), शून्यगृहं निर्मानुषं, श्मशानं मृतकजनप्रेतभूमिः, लयनं शैलगृहं, आपणः पण्यस्थानं, ततः समाहार द्वन्द्वः, अन्यस्मिन्नपि एवं प्रकारे उपाश्रये विहर्त्तव्यमिति । किंभूते उपाश्रये ? दकमुदकं, मृत्तिका पृथिवीकायरूपा, बीजानि शाल्यादीनि, हरितानि दुर्वादोनि, त्रसाः प्राणाः (प्राणिनः) द्वीन्द्रियादयः, तैः असंसक्तोऽनायुक्तः (तस्मिन्निति), यथाकृते-गृहस्थेन स्वार्थ निष्पादिते,प्रासुके निर्जीवे, विविक्ते त्यादिदोषरहिते, अतएव प्रशस्ते शुभनिमित्ते उपाश्रये वसतौ भवति विहर्त्तव्यं आयितव्यं शयनादि वा विधेयम्। यस्मिन् स्थाने न वसितव्यं तदाह-आधया साधुमनस्याधाय आश्रित्य तया पृथिव्याद्यारंभः क्रियते तदाधाकर्म तेन बहुलं-बहु प्रचुरं यत्र स तथा एवंविधोपाश्रयो वयः, अनेन मूलगुणदूषितस्य परिहार उक्तः । पुनः कोदृशम् ? आ-ईषत् सितं
For Private and Personal Use Only