________________
सप्तमो नर्तनाध्यायः अन्योन्यस्कन्धदेशस्थावरालौ स्वस्तिकीकृतौ । स्वसंमुखौ च विततावुत्सङ्गो गीयते करः ।। १९८ ॥ देहदक्षिणभागस्थं स्वस्तिकं केचिदूचिरे । अधस्तलत्वमप्यन्येऽन्योन्यकक्षानुवेशिनीः ॥ १९९ ॥ अङ्गुलीः करयोः पृष्ठद्वयं पार्श्वमुखं विदुः । करावरालयोः स्थाने सर्पशीर्षावितीतरे ॥ २० ॥ अतिप्रयत्रसाध्येऽर्थे शीतालिङ्गनयोरपि । प्रसाधनानङ्गीकारे लज्जादौ चैव योषिताम् ॥ २०१॥
इत्युत्सङ्गः (७) खटकामुखयोः पाण्योः स्वस्तिके मणिबन्धने । अन्योन्याभिमुखत्वे वा खटकावर्धमानकः ॥ २०२ ॥ ताम्बूलग्रहणादौ स्यात्कामिनां प्रथमे रसे । पुष्पाणां ग्रन्थने सत्यभाषणादौ मतान्तरे २०३ ॥ कुमुदोत्पलकुन्तेषु रूपणे शङ्खधारणे ।
इति खटकावर्धमानकः (८) । (सु०) उत्सङ्गं लक्षयति-अन्योन्येति । अन्योन्यस्कन्धदेशस्थौ अरालौ यत्र स्वस्तिकीकृत्य, स्वसंमुखौ ; स्वस्य पुरस्तात् विततौ चेत्, तदा उत्सङ्गः। मतान्तरमाह-केचिदिति । केचित् देहदक्षिणभागस्थ स्वस्तिकमाहुः । अन्ये तु अधोगततलाङ्गुलित्वमप्याहुः। परे तु पृष्ठद्वयं पार्धाभिमुखं यथा तथा करयोरगुली: अन्योन्यकक्षानुवेशिनी: यदा भवेयुः, तदा, उत्सङ्गमित्याहुः । इतरे अरालयोः स्थाने सर्पशीर्षावित्याहुः । अस्य विनियोगस्तु-अतिप्रयत्नसाध्येऽर्थे ; शीते ; आलिङ्गने, प्रसाधनानङ्गीकारे ; स्त्रीणां लज्जादौ च कार्य: १९८-२०१॥
इत्युत्सङ्गः (७) (क०) खटकावर्धमानम्य विनियोगे-प्रथमे मत इति । मणि
Scanned by Gitarth Ganga Research Institute