________________
संगीतरनाकरः कामजोऽप्यस्ति स द्वेधा शीतदाहमवर्तनात् । हनुचालेन सर्वाङ्गकम्पेन मुखशोषतः ॥ १६०४ ॥ परिदेक्नरोमाञ्चमुखसंकोचनादिभिः । शीतज्वरोऽभिनेयोऽथ दाहकोऽम्युपिपासया ॥ १६०५ ॥ फराङ्गगात्रविक्षेपाद् भूमिशय्याभिलापतः । शीतानुलेपनाकाङ्क्षाविकृष्टपरिदेवनैः ॥ १६०५॥
इति व्याधिः (२७) उत्तमानां विप्रलम्भे भवेत्प्रियवियोगतः। नीचानां विभवभ्रंशात्सर्वेषां संनिपाततः ॥ १६०७॥ अभिघातात्तथोन्मादस्तमेभिरनुभावयेत् । विना निमित्तं हसितं रुदितं पठितं तथा ।। १६०८ ॥ नृत्तं गीतं च शयनोपवेशोत्थानधावनम् । असंबद्धप्रलपनं चोवृत्तिधूलिभस्मनोः ॥ १६०९ ॥ कपालचीरनिर्माल्याद्यलंकरणमित्यपि । उन्मादः पृथगुक्तोऽयं व्याधिष्वन्तर्भवन्नपि ॥ १६१० ॥
जोऽप्यस्ति; ज्वरो द्विविधः, शीतज्वरः, दाहज्वर इति । हनुचालनसर्वाङ्गकम्पनमुखकोपनपरिदेवनरोमाञ्चमुखसंकोचनादिभिः प्रथमोऽभिनेयः । जलपिपासया कराङ्गगात्रविक्षेपैः भूमिशयनाभिभाषणेन शीतानुलेपनाकाङ्क्षाजनितपरिरोदनेन द्वितीयोऽभिनेयः ।। -१६०१-१६०५ ॥
इति व्याधिः (२७) (सु०) उन्मादं लक्षयति-उत्तमानामिति । उत्तमानां विप्रलम्भशृङ्गारे प्रियवियोगविभाव्यः, नीचानां तु विभवभ्रंशविभाव्यः । अनैमितिकहसितरुदित
Scanned by Gitarth Ganga Research Institute