________________ 311 सप्तमो नर्तनाध्यायः अघिणैकेन वेदन्यं वेष्टयेद्वेष्टनं तदा / तदेव वलनं केचिदवदन्नृत्तकोविदाः // 1011 // इति वेष्टनम् (12) उद्वेष्टनं घेष्टयित्वा पृष्ठतोऽङ्ग्रौ प्रसारिते। __इत्युद्वेष्टनम् (13) आकुश्चितस्य पादस्य पुरतः पृष्ठतस्तथा // 1012 // उत्क्षेपो जानुपर्यन्तमुत्क्षेपः कथ्यते बुधैः / इत्युत्क्षेपः (14) स चेत्पृष्ठत एव स्यात्पृष्ठोत्क्षेपममुं विदुः / / 1013 // इति पृष्ठोत्क्षेपः (15) (सु.) वेष्टनं लक्षयति-अज्रिणेति / यत्र एकपादेन अपरपादं वेष्टयति ; तद् वेष्टनम / तदेव वलनमिति केचिद्वदन्ति // 1011 // इति वेष्टनम् (12) (सु०) उद्वेष्टनं लक्षयति----उद्वेष्टन मिति / यत्र पाद: पृष्ठतो वेष्टयित्वा, पुतर: प्रसार्यते ; तद् उद्वेष्टनम् // 1011- // ___इत्युद्वेष्टनम् (13) (सु०) उत्क्षेपं लक्षयति-आकुञ्चितस्येति / यत्र आकुश्चित: पाद: पुरत: पृष्ठतश्च जानुपर्यन्तमुत्क्षिप्यते; स उत्क्षेपः // -1012, 1012 // ___ इत्युत्क्षेपः (14) __(मु०) पृष्ठोत्क्षेपं लक्षयति--स इति / स एवं ; उत्क्षेप एव, पृष्ठमात्रे उस्क्षिप्तश्चेत् ; तदा पृष्ठोत्क्षेपः // 1013 // इति पृष्ठोक्षेपः (15) Scanned by Gitarth Ganga Research Institute