________________
२५९
सप्तमो नर्तनाध्यायः अर्धसूच्यथ विक्षिप्तमावर्तं च निकुट्टकम् । ऊरूवृत्तमथाक्षिप्तमुरोमण्डलसंज्ञकम् ।। ८०८॥ फरिहस्तं कटीछिन्नं नवभिः करणैरिति । सूचीविद्धाभिधः प्रोक्तोऽङ्गहारो भरतादिभिः ।। ८०९ ॥
__ इति सूचीविद्ध: (३) दण्डपादं व्यंसितं च प्रसर्पितकसंज्ञकम् । निकुटा निकुट्टे चाक्षितोरोमण्डले ततः ॥ ८१० ॥ करिहस्तं कटीछिन्नमिति लक्ष्मापराजिते । नवभिः करणैर्युक्तमुक्तं निःशङ्कसूरिणा ॥ ८११॥
इत्यपराजितः (४) विद्धम , वर्तितम् , निकुट्टकम , ऊरूवृत्तम् , आक्षिप्तम् , उरोमण्डलम् , नितम्बम् , करिहस्तम् , कटीच्छिन्नमिति करणदशकैयुक्तं पर्यस्तकाख्योऽङ्गहारः ॥ ८०६, ८०७ ॥
इति पर्यस्तकः (२) (सु०) सूचीविद्धं लक्षयति-अर्धसूचीति । अर्धसूचि, विक्षितम् , आवर्तम् , निकुट्टकम् , ऊरूवृत्तम् , आक्षिप्तम् , उरोमण्डलम् , करिहस्तम्, कटीच्छिन्नमिति क्रमेण नवभिः करणैर्युक्तः सूचीविद्धो भवति ॥ ८०८,८०९॥
___सूचीविद्ध: (३) (सु०) अपराजितं लक्षयति-दण्डपादमिति । यत्र दण्डपादम् , व्यंसितम् , प्रसर्पितम् , निकुट्टकम् , अर्धनिकुट्टकम् , आक्षिप्तम् , उरोपण्डलम् , करिहस्तम्, कटीच्छिन्नमिति क्रमेण नवभिः करणैर्युक्त: अपराजिताख्योऽङ्गहारो भवति ॥ ८१०, ८११ ॥
अपराजित: (४)
Scanned by Gitarth Ganga Research Institute