________________
२१८
संगीतरत्नाकरः चतुरो वा तदाक्षिप्तं विदूषकगतौ मतम् ।
___ इत्याक्षिप्तम् (५०) कनिष्ठाङगुलिभागे चेद्वामा दक्षिणः स्थितः ।। ६६४ ।। स्तब्धजङ्घः सार्धतालद्वितयं स्यात्प्रसारितः । तदैव स्तब्धबाहुः सन्वामपार्थेऽलपल्लवः ।। ६६५ ॥ वामेतरः करः किंचित्प्रसृतायोऽर्गलं तदा । परिक्रमेऽङ्गदादीनां शार्ङ्गदेवेन कीर्तितम् ।। ६६६ ॥
इत्यर्गलम् (५१) ऊर्ध्वमूर्ध्वाङ्गुलितलः पादः पार्थे प्रसारितः । तदग्रयुक्पताकोऽङ्गं यत्रेत्थमपरं क्रमात् ।। ६६७ ॥ सूत्रधारादिविषये तत्स्यात्तलविलासितम् ।
. इति तलविलासितम् (५२) चारी, आक्षिप्तः खटकामुखः, चतुरो वा हस्तो भवति । तदाक्षिप्तम् । तञ्च विदूषकगतौ प्रयोज्यम् ॥ -६६३, ६३३- ॥
____ इत्याक्षिप्तम् (५०) (सु०) अर्गलं लक्षयति-कनिष्ठेति । यत्र वामा ः कनिष्ठागुलिभागे दक्षिण: पाद: स्तब्धजङ्घ सार्धतालद्वयप्रविभागेन प्रसारितो भवति, तेनैव प्रकारेण, वामेतरः कर: दक्षिणो बाहुः स्तब्धः सन , वामपावें अलपल्लवतामेत्य किंचित् प्रसृताग्रो भवति । तदा अर्गलाख्यं करणं भवति । तच्च अङ्गदादीनां परिक्रमे प्रयोज्यम् ॥ -६६४-६६६ ॥
इत्यर्गलम् (५१) (सु०) तलविलासितं लक्षयति-ऊर्ध्वमिति । यत्र ऊर्ध्वप्रदेशे ऊर्ध्वा अङ्गुलयः तलः यस्य, तथाविधः पादः पार्श्वप्रदेशे प्रसारितो भवति । तस्य
Scanned by Gitarth Ganga Research Institute