________________
सप्तमो नर्तनाध्यायः आविद्धवक्रयोः पाण्योतते चेद्भुजौ क्रमात् ॥ आविद्धावन्तराक्षिप्तौ सा स्यादाविद्धवर्तना।
इत्याविद्धवर्तना (6) स्वस्तिकाद्विच्युतौ हस्तौ हंसपक्षौ द्रुतभ्रमौ ॥ रेच्येते चेद्वर्तनाभ्यां तदा रेचितवर्तना ।
इति रेचितवर्तना (९) मणिबन्धावधिभ्रान्तौ विश्लिष्टाङ्गुलिपल्लवा ।। नितम्बोक्तप्रकारेण वर्तितौ स्कन्धदेशयोः । पुननितम्बदेशे तु पताको वर्तितौ क्रमात् ।। नितम्बवर्तना नाम
इति नितम्बवर्तना (१०)
केशबन्धोक्तरीतितः । विचित्रवर्तनायोगात्केशदेशाद्विनिर्गतौ ॥ पुनश्च केशदेशे च पर्यायेण विवर्जितौ । पताकावेव चेत्पाहुः केशबन्धाख्यवर्तनाम् ॥
___ इति केशबन्धवर्तना (११) व्यावृत्य वक्षसः फालं प्राप्य तत्पार्श्वमागतौ । ततो मण्डलवद्वान्त्या प्रचालितभुजौ करौ ।। पताकौ चेच्छनैरूव॑मण्डलावेव कोविदैः । चक्रवर्तनिकेत्युक्ता फालवर्तनिकापि च ।।
इति फालवर्तनिका' (१२)
चक्रवर्तनिका इत्यपि व्यवहारः। '
Scanned by Gitarth Ganga Research Institute