________________
३८६
संगीतरत्नाकरः ग्रहं द्विगुणसं कृत्वाधस्तनं स्थायिनं तया ॥ ७७७ ॥ कृत्वा द्वितीयतुर्यों च द्वितीयस्थायिनौ स्पृशेत् । विलम्बिते द्वितीयेऽथ स्थायिनि न्यस्यते यदा ।। ७७८ ।। श्रीरागस्य बुधैः प्रोक्तं तदा स्वस्थानमादिमम् । खरो वंशे द्वितीयोऽस्य ग्रहत्वेनोपलक्षितः ॥ ७७९ ॥
इति श्रीरागः
यो ग्रहः क्रियते वंशे तमपेक्ष्यात्र योजयेत् । लक्षणस्थं द्वितीयादि यदा किंतु ग्रहादयः ॥ ७८० ॥ यावन्तो यत्र रागे स्युः स्वरा लक्ष्मणि तावताम् ।। संभवः स्थायिना येन स्थायिनं तत्र तं श्रयेत् ॥ ७८१ ॥ अनुग्रहाय मुग्धानामित्येते कतिचिन्मया । रागाः प्रोक्ताः पथानेन संपश्यध्वं बुधाः परान् ।। ७८२ ।।
इति वंशप्रकरणम
(सु०) अथ श्रीरागमाह-प्रहमिति । द्विगुणं षड्ज प्रहं विधाय तदधस्तनं च गीत्वा, द्वितीयतुर्यों द्विरुच्चार्य द्वितीयस्थायिना स्पृष्टा विलम्बितद्वितीयानन्तरं स्थायिनि न्यासे श्रीरागस्य प्रथमं स्वस्थानम् ॥ -७७७-७७९ ॥
इति श्रीरागः
(क०) अथ सकलरागसाधारणन्यायं दर्शयति-यो ग्रह इति । तत्र विशेषमाह-कित्विति । यत्र यम्मिन् रागे ग्रहादयः स्वरा यावन्तः स्युः । लक्ष्मणि तद्रागलक्षणे येन स्थायिना तावतां स्वराणां संभवस्तत्र रागे तं स्थायिनं श्रयेदिति । अयमर्थः-- यस्य देशीरागस्य मन्द्रतारावधित्वेन यौ स्वरौ भवतः, तन्मध्यस्थाः स्वरास्ताभ्यां सह यावत्संख्या ये भवन्ति, तेषां
Scanned by Gitarth Ganga Research Institute