________________
षष्ठो वाद्याध्यायः
षड्जे हे द्वितीयं च तृतीयं सकृदाहतम् ॥ ७०५ ॥ वेगात्कृत्वाथ तुर्ये च तृतीयं तदधस्तनम् । उक्त्वा तृतीयतुयौं च तृतीयं तदधस्तनम् || ७०६ ॥ ग्रहे न्यासो वसन्तस्य स्वस्थाने प्रथमं भवेत् । तृतीयस्त्वस्य वंशेषु स्थायित्वेनोपलभ्यते ।। ७०७ ।। इति वसन्तः
स्थायिनि द्विगुणे षड्जे तदर्धे लघु वादयेत् । ततस्तत्सनुदाहत्य ग्रहं तस्मात्तृतीयकम् ॥ ७०८ ॥ तुर्य चोक्त्वा तृतीयं च सकृदाहत्य तत्परम् । द्रुतं कृत्वा पञ्चमं तु विन्यास्मादधस्तनौ ।। ७०९ ॥ लघुकृत्य ग्रहे न्यासः स्वस्थाने प्रथमे भवेत् । धन्नास्या दृश्यते वंशे स्याद् द्वितीयस्वरो ग्रहः ।। ७१० | इति धन्नासी
३७१
पूर्वं कम्पितमर्थमुच्चार्य हे समाप्तौ गुर्जर्याः प्रथमं स्वस्थानम् । अन्यत् स्वस्थानं पूर्ववत् वराटीवत् ॥ ७०३, ७०४ ॥
इति गुर्जरी
( सु० ) अथ वसन्तमाह – षड्ज इति । षड्जे स्थायिनि कृते सति, द्वितीयतृतीयौ ताडितौ सकृद्वा शीघ्रं गीत्वा, चतुर्थतृतीयद्वितीयानन्तरं प्रहस्वरे समाप्तौ वसन्तस्य प्रथमं स्वस्थानम् ॥ ७०५ - ७०७ ॥
इति वसन्तः
( सु० ) अथ धन्नासीमाह - स्थायिनीति | स्थायिनि द्विगुणं षड्जं स्थायिनं कृत्वा तस्यार्धं शीघ्रं वादयेत् । ततस्तदर्धं सकृदाहत्य, ग्रहद्वितीय
Scanned by Gitarth Ganga Research Institute